सूना
sūnāस्त्री · fem.In 14 kośas: 12 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः ।मांसिकः कौटिकश्चाथ सूना स्थानं वधस्य यत् ॥ ९३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
genderस्त्रीfem.
वैतंसिकः सौनिकः स्यात्कौटिको मांसविक्रयी ।सूना स्याद्घातनस्थानं कृपाणीली च कर्तरी ॥ ५९५ ॥
अनुष्टुप्
genderस्त्रीfem.
तुल्या सुधा स्वधा धाना रास्ना सूना कृपाऽपि च ।झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाऽथ च ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
मृतयानं काष्ठमल्ले गाङ्गेष्टी कटशर्करा ।सूना स्त्रियां वधस्थाने मतमाघातनं तथा ।पितृवसतिः पितृविपिनं करवीरं दाहसा(स)रश्च ।संकटमघमाशौचं भवत्यशौचं च तद्वदेवेह ॥ ७६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सानिः सनिः खानि-खनी जनि[श्च]सास्ना तनुर्नौः कठिनी च पामा ।सूना-हसन्यावपि कर्तनी चकानीस्तथा मेनि-विलेपनीयुक् ॥ ५७ ॥
इन्द्रवज्रा
genderस्त्रीfem.
मर्यादा च गदा गोधेक्षुगन्धापि स्वधा सुधा ।सास्नाथ वस्नसा सूना धाना झम्पा शिफा प्रपा ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
वाहोऽष्टद्रोणकः सूनाष्टखारीकपरीणतौ ।कुड्ड(ड?)पस्य चतुर्थेंऽशे निकुञ्चश्चापि कुञ्चनः ॥ ५३२ ॥
अनुष्टुप्
genderस्त्रीfem.
सूना पशुवधस्थानं पशुबन्धनसाधनम् ।वीतंसश्च वितंसो वै कथ्यते विबुधैरिह ॥ १५७७ ॥
अनुष्टुप्
genderस्त्रीfem.
शूना तालव्य-दन्त्यादिः, पामरः प्रामरोऽपि च ।क्षुल्लकः खुल्लकस्तद्वद्, निषादे तु श्वपाकवत् ॥ ३५३ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
सृणिर्द्वयोरङ्कुशोऽस्त्री सूना दण्डार्पितोऽङ्कुशः ।हिञ्जीरः स्याल्लोहमयं शृङ्खलं शृङ्खला त्रिषु ॥ ७११ ॥
अनुष्टुप्
genderस्त्रीfem.
चूषा कक्ष्या वरत्रा स्यादंकुशोऽस्त्री सृणिर्न षण् ।अपष्ठं त्वंकुशस्याग्रं सूना दण्डोऽर्प्रितांकुशः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
रसज्ञा रसना जिह्वा राजिः सूनाऽप्यधः स्थिता ।गण्डो गल्लः कपोलश्च तत्परा तु हनुर्न षण् ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
सूनं प्रसूतमाख्यातं क्वचित्पुष्पेऽपि दृश्यते ।सूना जन्तुवधस्थाने सूना च गजगण्डिका ॥
अनुष्टुप्
सूना तु पुत्र्यां गलशुण्डिकायांवधस्थलेऽथोनमुशन्ति हीने ।रणोद्यमेऽथार्कमयूखयोः स्यात्स्योनोऽथ मीनो झषराशिभेदे ॥ ८९ ॥
उपजातिः
सूनापुत्र्यां वधस्थानगलशुण्डिकयोः स्त्रियाम् ।स्योनन्तु किरणे सूर्ये स्याना स्यादोषधिभिदि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
सूना as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप तटिसूनायां तु स्त्रियां ना तु तरिर्वैश्वानरानले । स्त्री चर्मवृतपेडायां नावि चाथ तनुः स्त्रियाम् ॥ ५०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.509