All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
धान्ताः · धपादः
॥ इति दान्तवर्गः ॥
॥ धपादः ॥
श्रद्धा संप्रत्ययः काङ्क्षा बाधा दुःखनिषेधयोः ।गोधा तले निहाकायां बोधी समाधिपिप्पलौ ॥
18.1.1 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
सिद्धिरोषधिसंपत्त्योर्ऋद्धिर्वर्धन ओषधौ ।दोग्धा वत्से च गोपाले व्याधिः स्याद्गदकुष्ठयोः ॥
18.1.2 · p. 99
अनुष्टुप्
गाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः ।मुग्धः स्यात्सुन्दरे मूढे स्निग्धे वत्सलचिक्कणे ॥
18.1.3 · p. 99
अनुष्टुप्
अर्धः खण्डे समांशेऽर्धमिद्धमातप्तदीप्तयोः ।बुद्धा धीरजिनज्ञाता लुब्धौ मृगयुकाङ्क्षिणौ ॥
18.1.4 · p. 99
अनुष्टुप्
संसिद्धिः सहजे सिद्धौ वीरुद्विटपशाखयोः ।विबुधः पण्डिते देवे उत्सेधौ वपुरुन्नती ॥
18.1.5 · p. 100
अनुष्टुप्
आविद्धौ कुटिलक्षिप्तौ संबाधौ योनिसंकटौ ।संबोधश्च क्षये बोधे प्रणिधिः प्रार्थ[51] ने चरे ॥
18.1.6 · p. 100
अनुष्टुप्