संवसथ
saṃvasathaपुं · masc.In 15 kośas: 12 synonym verses, 1 as a nānārtha head word, 7 as a meaning of another word.
ग्रामस्तु वसथः संनिप्रतिपर्युपतः परः ॥ ९६१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
ग्रामः संवसथो ज्ञेयो ग्रामाधानं च खेटकम् ।ग्रामीणास्तु निगद्यन्ते ग्राम्या ग्रामेयका इति ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
शाखानगरपर्यायं ग्रामः कर्षुकवासभूः ।अथासंनिपर्युपेभ्यः परः स्याद्वसथः पुमान् ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderपुंmasc.doubtful
अवस्करोऽवस्करजे स्यादवस्करकस्त्रिषु ।संवसथः परिवसथः प्र[12a]तिवसथो पवसथौनिवसथश्च ।* * * * * * * * * * * * ग्रामः ॥ ५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
ग्रामो निवसथश्चापि तथा संवसथः स्मृतः ।तदर्धे पाटकः प्रोक्तः सीमाघाटो घटोऽवधिः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
वसथः संवसथश्च ग्रामे संवासथश्च सः ।ग्रामान्तमुपशल्यं स्याद्ग्रामसीमा तु गामिनी ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderपुंmasc.
ग्रामः संवसथश्चापि स्यात् प्रतिवसथस्तथा ।पर्युपवसथौ प्रोक्तौ निवसथश्च निगद्यते ॥ १६३९ ॥
metre not recognised
genderपुंmasc.
अथ संवसथग्रामौ तथावसथ इत्यपि ।वास्त्वस्त्री वेश्मभूर्वाटी वाटिका गृहपोतकः ॥ग्रामान्त उपशल्यञ्च द्वयं ग्रामसमीपके ।द्वे स्त्रियौ सीमसीमे च ग्राम्यावधिनिश्चिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कुङ्कणः कौङ्कणोऽप्युक्तो, द्रविडो द्रमिडोऽपि च ।ग्रामे तु वसथः सं-न्यु-प-प्रति-परितः परः ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प्र (wrong syllable)
genderपुंmasc.doubtful
अग्रहारो द्विजावासो ग्रामसंवसथौ समौ ।क्षुद्रग्रामे ग्रामटिका पल्ली खर्वट इत्यपि ॥ ३९६ ॥
अनुष्टुप्
genderपुंmasc.
ग्रामः पर्युपसन्निभ्यः प्रतेश्च वसथः परः ।स्थानीयन्तु महाग्रामो ग्रामाः क्षुद्राः परे क्रमात् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.doubtful
संवसथ as a meaning in nānārtha verses
- धरणिकोश ग्रामग्रामः संवसथे ज्ञेयो वृन्दे शब्दादिपूर्वकः । ग्रामो गीतस्वरे चैव संपूर्वः संयुगः स्मृतः ॥ Dharaṇikośa 24.3.4
- कोषकल्पतरु खेटखेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके- ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा । पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणे पीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥ Koṣakalpataru 6.10.9
- कोषकल्पतरु ग्रामतद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरः संपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ । अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौ वित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥ Koṣakalpataru 6.25.64
- नानार्थार्णवसंक्षेप ग्रामसङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे । शब्दभूतादिपूर्वस्तु व्रजे संवसथे तथा ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 2.2.46
- परमानन्दीयनाममाला ग्रामगर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे । गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥ Paramānandīyanāmamālā 5.9.158
- शब्दरत्नावली ग्रामग्रामः पुमान् संवसथे समूहस्वरभेदयोः । गुल्मः सेना सैन्यरक्षाधहभिद्व्याधिभित्सु च ॥ Śabdaratnāvalī 7.25.8
- त्रिकाण्डशेष ग्रामरेतोनिकामकाम्येषु कामं पुंसि स्मरेच्छयोः । क्षौममट्टे दुकूले च ग्रामः संवसथे स्वरे ॥ २९५ ॥ Trikāṇḍaśeṣa 3.3.295