कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ग्राम

grāmaपुं · masc.

In 17 kośas: 21 synonym verses, 9 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.961 · p. 38
ग्रामस्तु वसथः संनिप्रतिपर्युपतः परः ॥ ९६१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.62 · p. 54
ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणाद्व्रजे ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.19
समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.258 · p. 31
ग्रामः संवसथो ज्ञेयो ग्रामाधानं च खेटकम् ।ग्रामीणास्तु निगद्यन्ते ग्राम्या ग्रामेयका इति ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.156 · p. 80
सप्तस्वरास्त्रयो ग्रामाः मूर्च्छना एकविंशतिः ।तानान्येकोनपञ्चाशदित्येव स्वरविस्तरः ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.5 · p. 9
शाखानगरपर्यायं ग्रामः कर्षुकवासभूः ।अथासंनिपर्युपेभ्यः परः स्याद्वसथः पुमान् ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.13 · p. 75
ग्रामः स्यात्स्वरसंदोह आरोहस्त्ववरोहणम् ।क्रमात्स्वराणां सप्तानां मूर्छना प्रोच्यते बुधैः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.57 · p. 126
अवस्करोऽवस्करजे स्यादवस्करकस्त्रिषु ।संवसथः परिवसथः प्र[12a]तिवसथो पवसथौनिवसथश्च ।* * * * * * * * * * * * ग्रामः ॥ ५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 200
ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणोत्तरः ।वृन्दभेदाः समैर्वर्गः संघ-सार्थौ तु जन्तुभिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.249 · p. 35
ग्रामो निवसथश्चापि तथा संवसथः स्मृतः ।तदर्धे पाटकः प्रोक्तः सीमाघाटो घटोऽवधिः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.7 · p. 1
आपणो विपणिः पण्यवीथिका हट्टकोऽट्टकः ।पल्लीग्रामो गृहं गेहं वेश्म सद्म निकेतनम् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.106 · p. 30
द्रुतं विलम्बितं मध्यमिति गीते त्रयो लयाः ।ग्रामा घोरमन्द्रतारास्तालाश्च चपुटादयः ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.36 · p. 37
पूः पुरं नगरं द्रङ्गो निवेशो नगरी पुरी ।स्थानीयं निगमो ग्रामः पत्तनं पुटभेदनम् ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.87 · p. 43
राशिः पुञ्जोत्करौ कूटं जातं यूथं भरः कुलम् ।ग्रामो वर्गः समाहारो निकायो निचयोऽपि च ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1639 · p. 263
ग्रामः संवसथश्चापि स्यात् प्रतिवसथस्तथा ।पर्युपवसथौ प्रोक्तौ निवसथश्च निगद्यते ॥ १६३९ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2568 · p. 415
ग्रामो विषयशब्दोक्तभूतेन्द्रियगुणाद्गणे ।समजः स्यात् पशूनां वै समाजश्चान्यदेहिनाम् ॥ २५६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.40 · p. 53
अथ संवसथग्रामौ तथावसथ इत्यपि ।वास्त्वस्त्री वेश्मभूर्वाटी वाटिका गृहपोतकः ॥ग्रामान्त उपशल्यञ्च द्वयं ग्रामसमीपके ।द्वे स्त्रियौ सीमसीमे च ग्राम्यावधिनिश्चिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.396 · p. 53
अग्रहारो द्विजावासो ग्रामसंवसथौ समौ ।क्षुद्रग्रामे ग्रामटिका पल्ली खर्वट इत्यपि ॥ ३९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 93 · p. 536
स्यात् स्थानीयं त्वतिलम्बो ग्रामो ग्रामशताष्टके ।तदर्धं तु द्रोणमुखं तच्च कर्वटमस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.2 · p. 159
ग्रामः पर्युपसन्निभ्यः प्रतेश्च वसथः परः ।स्थानीयन्तु महाग्रामो ग्रामाः क्षुद्राः परे क्रमात् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.17 · p. 187
औशीरं शय्यासनयोर्लिंगं बुद्ध्यादिसंगतौ ।ग्रामः परोऽस्त्राद्विषयात् (गुणाद्) भूतेन्द्रियार्थकात् ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.268
शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.811 · p. 93
संघातेऽपि ग्रामो भूतेन्द्रियशब्दविषयकरणानाम् ।षण्डश्च पादपानां स्कन्धः करिनरतुरङ्गाणाम् ॥ ८११ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास मश्लोकः Dharaṇikośa 24.3.4 · p. 145
ग्रामः संवसथे ज्ञेयो वृन्दे शब्दादिपूर्वकः ।ग्रामो गीतस्वरे चैव संपूर्वः संयुगः स्मृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.63 · p. 280
ध्यामं गन्धतृणे पुमान्[द]मनके धूम्रे पुनर्वाच्यवत्गुल्मो [थो]बलरक्षणे च जठरग्रन्थौ प्रकाण्डे बले ।घट्टे स्त्र्यामलकीतडित्पटगृहे जाल्मस्तु रौद्रे जडेभेद्याभोऽप्यसमीक्ष्यकारिणि भवेद्ग्रामः स्वराणां ग्रहे ॥ ६३ ॥
शार्दूलविक्रीडितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.64 · p. 280
तद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरःसंपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ ।अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौवित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥
शार्दूलविक्रीडितम्metre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.46 · p. 24
सङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे ।शब्दभूतादिपूर्वस्तु व्रजे संवसथे तथा ॥ ४६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.158 · p. 181
गर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे ।गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.8 · p. 253
ग्रामः पुमान् संवसथे समूहस्वरभेदयोः ।गुल्मः सेना सैन्यरक्षाधहभिद्व्याधिभित्सु च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.295 · p. 193
रेतोनिकामकाम्येषु कामं पुंसि स्मरेच्छयोः ।क्षौममट्टे दुकूले च ग्रामः संवसथे स्वरे ॥ २९५ ॥
अनुष्टुप्

ग्राम as a meaning in nānārtha verses