कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सौकुमार्य

saukumāryaक्ली · neut.

In 1 kośa: 1 synonym verse.

रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderक्लीneut.