रुष्
ruṣस्त्री · fem.In 13 kośas: 14 synonym verses, 5 as a meaning of another word.
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।
अनुष्टुप्
genderस्त्रीfem.
रुषा रुट् स्यात् क्रुधा क्रुट् च ईर्षा त्वीर्ष्याऽपि कथ्यते ।आपद्भवेदापदया विपद्विपदया सह ॥ २१२ ॥
अनुष्टुप्
genderस्त्रीfem.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderस्त्रीfem.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
खेदो द्वेषोऽप्यमर्षश्च रुट्कोपक्रोधमन्यवः ।हर्षः प्रमोदः प्रमदो मुत्तोषानन्दमुत्सवः ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
मन्युः प्रतिघरोषौ रुड् उद्योगः प्रौढिरुद्यमः ।प्रगल्भताभियोगौ चोत्साहश्च कियदेति [18] का ॥ २११ ॥
अनुष्टुप्
genderस्त्रीfem.
सस्वम्भा(?)ऽमर्षरोषाश्च रुषा च रुट् क्रुधौ स्त्रियाम् ।चरित्रमपि चारित्रं चरितञ्च समं त्रयम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः ।रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
कण्डूः कण्डूति-कण्डूये, व्रणे रुषो रुषा सह ।ईर्मोऽस्त्रियामीर्म नान्तं गण्डे विस्फोट-स्फोटकौ ॥ ८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable); pāda 4, syllable 5 ट (wrong syllable)
genderस्त्रीfem.
रुट्क्रुधावक्षामेर्ष्याथ संरम्भः कोपैवकृतम् ।अवष्टम्भस्मयाटोपगर्वाहंकारदर्पकाः ॥ ९७७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
आर्तिः कृत्तिश्छविश्छर्दिः कीर्तिर्जूर्त्यर्तिपूर्तयः ।भ्रूकुटिभ्रुकुटिप्रावृड्विप्रुड्रुट्तृट्त्विषः स्त्रियाम् ॥ २३१० ॥
अनुष्टुप्
genderस्त्रीfem.
शोकस्तु मन्युरुत्खेवदः शुक् स्त्री दैन्यानुशोचने ।क्रोधः कोपोऽमर्षरोषौ रुषा रुट्क्रुत्क्रुधाः स्त्रियः ॥ १८३ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
द्विकं तु मनआत्मानाविन्द्रियाणि तु पञ्चकम् ।षट्कं कामो मदो मानो लोभो हर्षो रुषापि च ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
रुष् as a meaning in nānārtha verses
- धरणिकोश प्रतिघप्रतिघौ रुट्प्रतीघातावनघोऽपापहृद्ययोः । अनर्घोऽमूल्येऽपूज्ये स्यादुल्लाघो निर्गदे शुचौ ॥ Dharaṇikośa 4.1.2
- धरणिकोश उम्स्म पादपूरणेऽतीते उं प्रश्नेऽङ्गीकृतौ रुषि ॥ Dharaṇikośa 34.15.1
- कोषकल्पतरु मत्सरमल्लीविभेदे द्वितयेऽथ युद्धे कुक्षौ तथान्त्येऽप्युदरं वदन्ति । जवे प्रणीतौ प्रसरश्च युद्धे ऽथो मत्सरत्वे रुषि मत्सरः स्यात् ॥ १ ॥ Koṣakalpataru 6.27.1
- नानार्थार्णवसंक्षेप षट्कविशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सङ्घेऽथ षड्ध्वनेः ॥ १४३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1435
- वैजयन्ती प्रतिघपदाजिर्युधि मार्गे च रक्षोवृक्षौ पलाशिनौ । प्रतिघौ रुट्प्रतीघातौ प्रतापौ पौरुषातपौ ॥ ५४ ॥ Vaijayantī 7.1.54