कार्ष्ण्य
kārṣṇyaक्ली · neut.In 3 kośas: 1 synonym verse, 5 as a meaning of another word.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderक्लीneut.
कार्ष्ण्य as a meaning in nānārtha verses
- कोषकल्पतरु कालिकागौरीनवाम्बुदघनावलिधूमरीषु स्याद्योगिनीभिदि नृवत्सर( ? )कार्ष्ण्ययोश्च । मांसीपटोलघनरोमलतासु शाखा- काक्योश्च वृश्चिकदलेऽपि च कालिका स्यात् ॥ १५ ॥ Koṣakalpataru 6.1.15
- नानार्थार्णवसंक्षेप शैत्यगन्धद्रव्येऽथ शैत्यं स्यान्नैशित्ये शौक्ल्यकार्ष्ण्ययोः । शीतलत्वे च शोचिस्तु पै(श?ङ्ग)ल्ये शु(द्धि?ग्वि)शुद्धयोः ॥ ६६ ॥ Nānārthārṇavasaṃkṣepa 2.3.66
- नानार्थार्णवसंक्षेप कालमृत्यौ चापि महादेवे कार्ष्ण्ये त्रिषु तु तद्वति । काष्ठा स्त्री कालभेदे स्यादष्टादशनिमेषके ॥ १८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.184
- नानार्थार्णवसंक्षेप नीलनीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः । कार्ष्ण्ये शौक्ल्ये च गुणयोस्त्रि तु तद्वति तत्र च ॥ ६९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.691
- नानार्थार्णवसंक्षेप श्यामलश्यामलोऽश्वत्थवृक्षे ना कार्ष्ण्ये च त्रि तु तद्वति । श्यामिका मृगभेदे स्त्री श्यामला षोडशाङ्गुला ॥ १८१३ ॥ Nānārthārṇavasaṃkṣepa 4.1813