All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
णान्ताः · णच
चारुपर्णी भद्रपर्ण्यां चारुपर्णो मुनिप्रिये ।जीर्णपर्णस्तु खर्जूरीपादपे पिचुमर्दके ॥ १६७ ॥
11.3.167 · p. 16
अनुष्टुप्
तिलपर्णी तु कुन्तल्यां बर्बरे चन्दनेऽपि च ।तैलपर्णी मलयजे सिल्हश्रीवासयोरपि ॥ १६८ ॥
11.3.168 · p. 16
अनुष्टुप्
पीलुपर्णी तु बिम्बायां मूर्वायां क्षीरमोरटे ।पृथक्पर्णी स्निग्धपर्ण्यां पृष्टिपर्ण्यां यवासके ॥ १६९ ॥
11.3.169 · p. 16
अनुष्टुप्
मधुपर्ण्यमृताम्भोजाकाश्मरीनीलिनीषु च ।रक्तरेणुस्तु सिन्दूरे पलाशस्य च कोरके ॥ १७० ॥
11.3.170 · p. 16
अनुष्टुप्
शतपर्णस्तु सुपर्णे शतपर्णी मस्त्यपित्तायाम् ।शुकपर्णं स्थौणेये मोचायां ग्रन्थिपर्णे च ॥ १७१ ॥
11.3.171 · p. 16
metre not recognised
स्निग्धपर्णी सिंहपुच्छ्यां मूर्व्यां पुंसि तु पिप्पले ।सुनिषणश्चतुःपत्रसितिवारकयोः पुमान् ॥ १७२ ॥
11.3.172 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ष (wrong syllable)
सूर्यपर्णी मुद्गपर्ण्यां माषपर्ण्यामपि स्त्रियाम् ।हस्तिकर्णो ब्रह्मवृक्षे हस्तिकर्णी तु चन्दने ॥ १७३ ॥
11.3.173 · p. 16
अनुष्टुप्
हस्तिकर्णं कररुहे रक्तैरण्डे तु न स्त्रियाम् ।हस्तिपर्णो वर्धमानगुह्यबीजकयोः पुमान् ॥ १७४ ॥
11.3.174 · p. 17
अनुष्टुप्