फलक
phalakaक्ली · neut.In 19 kośas: 27 synonym verses, 2 as a nānārtha head word, 18 as a meaning of another word.
अड्डनं फलकं चर्म खेटकावरणस्फुराः ॥ ७८३ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंक्लीm. n.
खेटकं फलकं चर्म प्रोक्तमावरणं बुधैः ।वर्मितः स्यात्कवचितः सन्नद्धो दंशितस्तथा ॥ ४६० ॥
अनुष्टुप्
genderक्लीneut.
खराटे त्रिपुटः शोधो रङ्कुटे हेमरेणुका ।स्नेहपूरे तु फलकः कषणः काकचूलिका ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
क्षुरप्रं स्यात् खुरप्रं च फलकं च फलं भवेत् ।इलिः स्यादीलिलीली च इली च छुरिका छुरी ॥ २१६ ॥
अनुष्टुप्
genderक्लीneut.
कलत्रं च कटीरोऽस्त्री फलको ना कटिः स्त्रियाम् ।ककुद्मतो द्वयोः श्रोणिः स्त्रियौ श्रोणिकटी कटः ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
फलकोऽस्त्री फलं फाण्टं खेटं क्लीबे स्फुटं पुनः ।अद्भुतावरणे चर्मदके संग्राहकोस्य तु ॥ ३११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अपि स्यात्फलकः पुंसि ततः क्लीबे तु पुंसि वा ।अष्टापदं सारिफलं पणद्यूतं समाह्वयः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कुरण्टकश्च फलकः पीताम्लानश्च पीतनः ।कुसुमः स्यात्कुरवकः सादासी नीलपुष्पिका ॥ २७९ ॥
अनुष्टुप्
genderपुंmasc.
वालंकालकतङ्कानां निष्कतालकयोरपि ।स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥ १४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंक्लीm. n.
फलकोऽ *[ स्त्री ]फलं चर्मावरणं खेटकाडुने ।फरकोऽस्त्री स्फुरोऽथ स्यात्संग्राहो मुष्टिरस्य यः ॥ ३३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
प्रत्याकारपरीवारौ कोशः स्यादसिसंवृतौ ।खोटकः फलकं चर्माड्डनं चावरणं तथा ॥ ३८८ ॥
अनुष्टुप्
genderक्लीneut.
चषकफलककल्का मूलको मञ्चकोऽपिमरकमणिकटङ्का शाटकः पुस्तकश्च ।चरकसरकशूकानीकशुल्काश्च मुष्कःकटकफरकनाका मस्तको मुस्तकश्च ॥ १३० ॥
मालिनी
genderपुंक्लीm. n.
फलं च फलकश्चर्म संगृही संग्रहोऽपि च ।गृहश्च संगृहश्चापि चर्ममुष्टौ प्रकीर्तितौ ॥ ३६५ ॥
अनुष्टुप्
genderपुंmasc.
तरवारिस्तीव्रमार्गः कृपाणः कोषमन्दिरः ।प्रासः कुन्तो लोहविद्युत् फलकं चर्म चार्मिकम् ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
खेटकः पलकं चर्म शस्त्रिका तु कृपाणिका ।असिधेनुरसिपुत्री छुरिका क्षुरिका च सा ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
genderक्लीneut.doubtful
आवरणं खेटकं खेटः फलकं मड्डनं स्फुरः ।स्फुरकः फरकं चर्म नामानि फलकस्य वै ॥ १२८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
स्त्रियां कटिः कटी श्रोणिः श्रोणी चापि कुकुद्मती ।कलत्रं फलकं स्यात्तु कटीरश्च कटीप्रोथः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 प्रो (wrong syllable)
genderक्लीneut.
उड्डनञ्चद्रुफलाकचर्मास्त्री फलकं फलम् ।तथा फलकमुष्टौ तु संग्राहोऽपि च संग्रहः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंक्लीm. n.
अष्टापदं शारिफलं फलकस्त्रयमस्त्रियाम् ।चुञ्चुरी तिन्तिडी द्यूतं पञ्चनी शारिशृङ्खला ॥
अनुष्टुप्
genderपुंक्लीm. n.
फलकोऽष्टापदे शारिः शारः खेलनिकोच्यते ।व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्डि (wrong syllable)
genderपुंmasc.
प्रत्याकारे कोश-कोषावावरणे फरं स्फरम् ।स्फरः स्फरकः फरकः फलकं फलमित्यपि ॥ २७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 4 र (wrong syllable)
genderक्लीneut.
फलकोऽस्त्री फलं चर्म खेटकः क्षुद्रचर्मणि ।मुष्टौ मण्डुकसंग्राहौ क्रकचः करपत्रकम् ॥ १३५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
समरसरकरणविटपाङ्गारिकदैवतकूटागाराः ।प्रोथमुहूर्तदिवसफलकानिकाशनिदाघमुषलतिलकानि ॥ १३ ॥
उद्गीतिःmetre not read in every line
genderपुंक्लीm. n.
धौते निशातन्निशितं क्ष्णुतं तेजितमर्थवत् ।फलं चर्ममयं चर्म फलकं खेटकं समम् ॥ १९७ ॥
अनुष्टुप्
genderक्लीneut.
स्नेहपूरे तु फलकः कर्षायौ पाकचूडकौ ।सुवर्चलामसृण्यौ च क्षुमा चोमाप्यतस्यपि ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
काष्ठासने स्यात् फलकं शस्त्राणां च निवारणे ।खेटकाख्येऽथ फलकी मत्स्यजात्यन्तरे स्त्रियाम् ॥ १२१९ ॥
अनुष्टुप्
फलक as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् खेटकखेटकौ ग्रामफलकौ धीवरेऽपि च जालिकः ॥ Amarakośa 3.3.31
- धरणिकोश चर्मन्मीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ । भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥ Dharaṇikośa 19.1.6
- धरणिकोश फलफलं सस्ये शराद्यग्रे फलके व्युष्टिदानयोः । लाभे हेतुसमुत्थे च प्रियङ्गस्तु फली स्मृता ॥ Dharaṇikośa 27.3.1
- कोषकल्पतरु जालकवर्तको हयखुरे द्वितयस्मि- न्नेष पक्षिणि मतोऽथ कुलाये । जालिनीफलककोरकदम्भा- नायवाचि किल जालकमन्त्ये ॥ ४६ ॥ Koṣakalpataru 6.1.46
- कोषकल्पतरु परञ्जअण्डजाः सरटमीनभुजंग- पक्षिणो मृगमदे तु भवेत्स्त्री । तैलयन्त्रकरवालकफेन- खड्गधेनुफलकेषु परञ्जम् ॥ ४० ॥ Koṣakalpataru 6.7.40
- कोषकल्पतरु खेटखेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके- ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा । पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणे पीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥ Koṣakalpataru 6.10.9
- कोषकल्पतरु चर्मन्भर्मा रवौ हेम्नि भृतौ च षण्ढे चर्म त्वचि स्यात्फलके च तद्वत् । व्याप्ये क्रियायामपि कर्म न स्त्री वर्त्माध्वनेत्रच्छदवाचकं च ॥ ९० ॥ Koṣakalpataru 6.21.90
- कोषकल्पतरु फलहेतूस्थितेऽन्त्ये फलके फलं च व्युष्टौ च लाभे सुमनःफले च । कङ्कोलबाणाग्रकधान्यकेषु फलत्रिके स्यात्फलिनीगतः स्त्री ॥ ४८ ॥ Koṣakalpataru 6.28.48
- कोषकल्पतरु आकर्षउत्कोचसंभोगमनोज्ञमूर्ति- रूपादिकेषु प्रथितः प्रवीणैः । आकर्ष उक्तः फलके तु सारे द्यूते तथा पाशक इन्द्रिये च ॥ ५९ ॥ Koṣakalpataru 6.30.59
- नानार्थार्णवसंक्षेप खेटकपक्षयुक्ते त्रिषु पुनर्व्योमचारिण्यथो नपि । खेटकं फलके ग्रामधा(ने?न्ये) त्वन्ये त्रिषु त्वदः ॥ ६२८ ॥ Nānārthārṇavasaṃkṣepa 4.628
- नानार्थार्णवसंक्षेप हस्तिकर्णनिवारणार्थे शस्त्रस्य भटानां फलकान्तरे । हस्तिचारो गजत्रासहेतौ शरभसन्निभे ॥ १२८ ॥ Nānārthārṇavasaṃkṣepa 6.128
- नानार्थार्णवसंक्षेप वलाहकाअन्तर्लोहेन बद्धान्ते फलके स्याद्वलाहका । वर्वरीका सरस्वत्यां स्त्री द्वयोस्तु पतत्त्रिणि ॥ ५४६ ॥ Nānārthārṇavasaṃkṣepa 6.546
- नानार्थार्णवसंक्षेप हस्तिकर्णशरभाभे गजत्रासहेतौ यन्त्रेऽत्र पूर्ववत् । हस्तिकर्णस्तु ना शस्त्रत्राणार्थफलकान्तरे ॥ ६९२ ॥ Nānārthārṇavasaṃkṣepa 6.692
- शब्दरत्नावली चर्मन्ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
- शब्दरत्नावली फलफलं हेतुसमुत्थे स्याद्व्युष्टौ फलकलामयोः । शष्यकक्कोलवाणाग्रजातीफलार्त्तवेषु च ॥ क्लीबलिङ्गं स्त्रियामेव प्रियङ्गौ तु फलीति च । फालः सीरोपकरणे त्रिषु कार्पासवाससि ॥ Śabdaratnāvalī 7.28.25
- त्रिकाण्डशेष पट्टधाराटौ चातकहयौ कपाटेऽपि च निष्कुटः । कोटरेऽप्यथ पट्टः स्यात्फलके नृपशासने ॥ ९८ ॥ Trikāṇḍaśeṣa 3.3.98
- त्रिकाण्डशेष चर्मन्गहनं गह्वरे दुःखे वनेऽथाम्बुदमुस्तयोः । घनः युवा घनं वाद्यं चर्म स्यात्फलकत्वचोः ॥ २३७ ॥ Trikāṇḍaśeṣa 3.3.237
- त्रिकाण्डशेष फलपिङ्गलः यत् कपावग्नावाशुव्रीहिश्च पाटलः । फलं जातिफले लाभे बाणाग्रे फलकेऽपि च ॥ ४०१ ॥ Trikāṇḍaśeṣa 3.3.401