कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

दशमोपदेशः

इति नत्कीरविरचितायां बालप्रबोधिकायां नवमोपदेशः ।

मृन्मृत्तिकाऽत्र भेदे तु मृत्स्ना मृत्सा च कथ्यते ।मृच्चूर्णे तु पुरीषः स्याल्लोष्टं लोष्ट इतीरितः ॥ १७५ ॥
10.175 · p. 82
अनुष्टुप्
इष्टका लोष्टका तु स्यादूपरस्तु … मृत्तिका ।धूलिश्चापि रजः पांसू रेणुः स्यादनिलध्वजः ॥ १७६ ॥
10.176 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परागः कर्दमे तु स्यात्कीर्तिस्यूदश्च सूदकः ।पारिवत्परिवत्पङ्कं शादावलिकशाड्वला ॥ १७७ ॥
10.177 · p. 82
अनुष्टुप्
केदारकेटवः क्षेत्रमुर्वरा सर्वसस्यभूः ।भूमिच्छिद्रं कृष्ययोग्या प्रहतं नालमुद्धतम् ॥ १७८ ॥
10.178 · p. 82
अनुष्टुप्
खिलं प्रभृतं स्थानं चाप्युषवत्सूषरस्थले ।कचङ्गला तु नीलिङ्गी भूर्नानाजन्तुसंयुता ॥ १७९ ॥
10.179 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तं (wrong syllable)
शाद्वलः शादहरितो वेतस्वान्बहुवेतसः ।सरस्वोऽनड्वलोऽनड्वान् कुमुद्वान्कुमुदाधिकः ॥ १८० ॥
10.180 · p. 82
अनुष्टुप्
शर्करः स्याच्छर्करीलः शार्करः शर्करावती ।कृष्णभूमिः पाण्डुभूमिः कृष्णा पाण्डुश्च यत्र मृत् ॥ १८१ ॥
10.181 · p. 82
अनुष्टुप्
स नीरसाम्बुरन्यस्तु जाङ्गलः शून्य उज्जटः ।स्फरिते साटनारट्टौ राजन्वान्स्तुत्यराजनि ॥ १८२ ॥
10.182 · p. 82
अनुष्टुप्
श्मशानं स्यात्पितृवनं विवासः क्रिमिपर्वतः ।शतमूर्धा वामलूरुनारुर्वल्मीकमित्यपि ॥ १८३ ॥
10.183 · p. 83
अनुष्टुप्
मार्गे तु स्याद्धावनकः पन्थानः पदवी सृतिः ।पाणिन्धमस्तदल्पे स्याच्चोरमार्गे तु कीलकः ।सुराङ्गः कृत्रिमे मार्गे गविनी … च ॥ १८४ ॥
10.184 · p. 83
अनुष्टुप्metre not read in every line