मृत्तिका
mṛttikāस्त्री · fem.In 16 kośas: 20 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
मृन्मृत्तिका सा क्षारोषो मृत्सा मृत्स्ना च सा शुभा ॥ ९४० ॥
अनुष्टुप्
genderस्त्रीfem.
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।
अनुष्टुप्
genderस्त्रीfem.
मृन्मृत्तिका प्रशस्तासौ मृत्सा मृत्स्नेति कथ्यते ।शाद्वलं हरितं प्रोक्तं नड्वलं नलसंयुतम् ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
मृन्मृत्तिकाऽत्र भेदे तु मृत्स्ना मृत्सा च कथ्यते ।मृच्चूर्णे तु पुरीषः स्याल्लोष्टं लोष्ट इतीरितः ॥ १७५ ॥
अनुष्टुप्
genderस्त्रीfem.
पृथिवी पृथवी पृथ्वी भूमिर्भूमी च दृश्यते ।अवनी अवनिस्तुल्ये मृन्मृदे मृत्तिमृत्तिके ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादिला पर्वतार्थेभ्यः कीलार्था गातुरित्यपि ।उर्वरा सर्वसस्याढ्या मृदा मृन्मृत्तिका समा ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
मृन्मृत्तिका विकारेऽस्या मार्त्तिको भेद्यलिङ्गकः ।मृत्सा मृत्स्ना प्रशस्ता सा क्षारा तूषा द्वयोरुषः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
मण्डूकपर्णी वस्त्रालंकरणी कालगोष्टिका ।मृत्तिका छद्मका काला हेमा योजनवल्ल्यपि ॥ ८० ॥
अनुष्टुप्
genderस्त्रीfem.
सर्वसस्या मही च स्यादुर्वरा मृत्तु मृत्तिका ।इरिणं तूषरं धन्वा स्थलं प्रोक्ता स्थली पुनः ॥ २३० ॥
अनुष्टुप्
genderस्त्रीfem.
शालिनी काश्यपी क्षोणिर्विपुला गह्वरी स्थिरा ।अचला सरसानन्ता मृत्सा मृत्स्ना च मृत्तिका ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
मृन्मृत्तिका प्रशस्ता मृन्मृत्सा मृत्स्ना महीपलम् ।नीवृज्जनपदो देशविषयावुपवर्त्तनम् ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
मृन्मृत्तिका च सामान्या क्षारा भूमिरुषः स्मृतः ।मृत्सा मृत्स्ना च सा ख्याता यत्र मृच्छोभना भवेत् ॥ १५९६ ॥
अनुष्टुप्
genderस्त्रीfem.
मृत्तिका कालिका चैव कंसोद्भवा पुनः किल ।सौराष्ट्रमृत्तिकायाश्च नामानि कथितानि वै ॥ १८२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्भ (wrong syllable)
genderस्त्रीfem.
मृन्मृत्तिका मृदा सैव मृत्सा मृत्स्ना च शोभना ।ऊर्वरा स्यादुर्वरा च सर्वशस्यवती मही ॥
अनुष्टुप्
genderस्त्रीfem.
नखरीखुर इत्येवं गन्धद्रव्यं नखीति यत् ।आटकी मृत्तिका मृत्स्ना तुवरी तूवरीत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः ।आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि ।वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् ।दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥
स्रग्धराmetre not read in every line
द्रोणीस्त्रीरसालास्त्रीश्रुतिस्त्रीविरतिस्त्रीगुहास्त्रीशुक्तिस्त्रीमुक्तास्त्रीवडभीस्त्रीस्थलीस्त्रीज्यास्त्रीनियतिस्त्रीतरलिकास्त्रीवेदिस्त्रीभित्तिस्त्रीश्रुच्स्त्रीवलीस्त्रीवल्लीस्त्रीविदारीस्त्रीत्रुटिस्त्रीधमनिस्त्रीशिखास्त्रीमल्लिकास्त्रीयूषिकास्त्रीत्वच्स्त्रीदृष्टिस्त्रीजिह्वास्त्रीअटवीस्त्रीविकृतिस्त्रीकणास्त्रीदेहलीस्त्रीमृत्तिकास्त्री
genderस्त्रीfem.
मृन्मृत्तिकाऽपि सा शस्ता मृत्सा मृत्स्नाऽपि खानिका ।लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
तूबरी तुबरी प्रोक्ता मृत्तालकं मृतालकम् ।मृत्तिका मृत्स्नया मृत्सा, गन्धाश्मनि सुगन्धकः ॥ ८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
genderस्त्रीfem.
वसुंधरा भूतधात्री सैव सस्यघनोर्वरा ।मृत्तिका मृत्प्रशस्तायां मृत्सा मृत्स्ना च मृद्युभे ॥ ३६७ ॥
अनुष्टुप्
genderस्त्रीfem.
लोष्टोऽस्त्री दरिणिर्न क्ली लेष्टुर्ना मृत्तु मृत्तिका ।पुरीषं मृत्तिकाचूर्णं मृत्सा मृत्स्ना प्रशस्तमृत् ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
मल्लिका हंसभेदे स्यात् मल्लीवृक्षे तु मल्लिका ।मृत्तिका पात्रभेदे च तथा मत्स्यविशेषके ॥
अनुष्टुप्
मृत्तिका as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मृद्मृन्मृत्तिकायां भैषज्यभेदे तुवरिकाह्वये । मृच्छब्दो जलवाच्यस्ति धान्तदान्तत्वसंशयात् ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 1.1.58
- परमानन्दीयनाममाला काचकाचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः । कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥ Paramānandīyanāmamālā 5.7.87
- शब्दरत्नावली नद्धाननद्धानं(?) काचपात्रे स्यान्मृत्तिकाभाण्डभेदयोः । कुहना दम्भचर्यायां स्यादीर्ष्यापथकल्पने ॥ Śabdaratnāvalī 7.20.47
- शब्दरत्नावली शिलीन्ध्रीशिलीन्ध्रो वृक्षभेदे स्याच्छत्राककरकासु च । शिलीन्ध्री मृत्तिकागण्डूपदी विहङ्गिकासु च । शीकरः शरले वात क्षिप्तनीरकणेऽपि च ॥ Śabdaratnāvalī 7.27.106