All kośas › Bālaprabodhikā
बालप्रबोधिका Bālaprabodhikā
357 verses · 2,901 words tagged · 725 marked doubtful (dashed)
नवमोपदेशः
इति नत्कीरस्य कृतौ बालप्रबोधिकायामष्टमोपदेशः ।
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
9.163 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भङ्गस्तरङ्गस्तरगः कल्लोलोल्लोलकश्च सः ।ऊर्मिर्भङ्गश्च भङ्गं च बुद्बुदाकर इत्यपि ।डिण्डीर: पाण्डरश्चर्वी जलपीतं तरङ्गजम् ॥ १६४ ॥
9.164 · p. 81
अनुष्टुप्
अब्जः कम्बु च कम्बुश्च शङ्खश्चेति निगद्यते ।शुक्तिर्वराटी खर्वश्च चूर्णाद्यं वृषभूषणम् ॥ १६५ ॥
9.165 · p. 81
अनुष्टुप्
मत्स्यो मीनश्चली चीमो वालुके नडमीनकः ।मकरः पत्रकी यन्त्री नको नीराटकः स्मृतः ॥ १६६ ॥
9.166 · p. 81
अनुष्टुप्
समुद्रो जलधिर्वार्धिसारभिच्छरधिः कधिः ।कन्धिः सरस्वान्रत्नाङ्गः पयस्वान् पवनानुगः ॥ १६७ ॥
9.167 · p. 81
अनुष्टुप्
सव्यापसव्यगमनः कृष्णः कोलाहलस्वनः ।कलशाम्बुधिमन्थाब्धिरब्धिरिक्षुरसाम्बुधिः ॥ १६८ ॥
9.168 · p. 81
अनुष्टुप्
नदी द्वीपवती शुक्तिमती वेगवतीति च ।शैवालिनी शैवलिनी वेणिनी निम्नगाऽऽपगा ॥ १६९ ॥
9.169 · p. 81
अनुष्टुप्
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।कृष्णवेणी कृष्णनदी यमुना शमनस्वसा ॥ १७० ॥
9.170 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
कावेरी सह्यजा स्वर्णनदी चापि मरुद्वृधा ।ताम्रपर्णी लोहनदी ताम्रा ताम्रवतीति च ॥ १७१ ॥
9.171 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
पद्मन्तु नलिनं पद्मं पङ्कजं बिसजं मतम् ।सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ १७२ ॥
9.172 · p. 82
अनुष्टुप्
कुवेलयं कुवलयं कैरवं कुमुदं मतम् ।नालन्तु नालिका नालः कणिका बिस इत्यपि ॥ १७३ ॥
9.173 · p. 82
अनुष्टुप्