आपद्
āpadस्त्री · fem.In 15 kośas: 14 synonym verses, 10 as a meaning of another word.
स्वस्थानस्थः परद्वेषी गोष्ठश्वोऽथापदि स्थितः ॥ ४७७ ॥आपन्नोऽथापद्विपत्तिर्विपत्स्निग्धस्तु वत्सलः ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
अनुष्टुप्
genderस्त्रीfem.
सौख्यं सुखं शर्मशातमयः शुभफलो विधिः ।संपल्लक्ष्मीश्च संपत्तिर्विपत्तिर्विपदापदौ ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
रुषा रुट् स्यात् क्रुधा क्रुट् च ईर्षा त्वीर्ष्याऽपि कथ्यते ।आपद्भवेदापदया विपद्विपदया सह ॥ २१२ ॥
अनुष्टुप्
genderस्त्रीfem.
सम्पत्तिः सम्पदा संपल्लक्ष्मीः श्रीर्विपदा विपत् ।विपत्तिरापद्दुःखार्था न द्वयोरायुधं पुनः ॥ २५७ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋद्धिः संपत् संपदास्त्राब्धिभूति-र्भूतिर्लक्ष्मीर्वृद्धिसंपत्तिनन्दाः ।पुंलिङ्गोऽयं स्याद्विधिर्यः शुभार्थो-ऽथापत्तिः स्यादापदापद्विपत्तिः ॥ ४३ ॥
शालिनी
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः ।प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥
अनुष्टुप्
genderस्त्रीfem.
आपद्विप[द्विप]त्तिश्च दारिद्रं निःस्वनिर्धनौ ।कदर्यः कृपणो लोभी बद्धमुष्टिर्मितंपचः ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
आपत्तिः स्याद्विपत्तिश्च विपदाऽऽपत् तथैव च ॥ ७३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
अथ लक्ष्मीः स्त्रियां सम्पत् सम्पत्तिः श्रीश्च कीर्तिता ।एता अपि स्त्रियां तिस्रो विपदापद्विपत्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
उपचर्यापि, सत्कृत्यालङ्कृतस्वकनीदये ।कूकुदः कूपदश्चाऽऽपदापदे विपदे विपदा विपद् ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रासनं भद्रपीठं पीठं कोशोऽर्थसंचयः ।लक्ष्मीश्रीसंपदस्तुल्या विपत्तिविपदापदःधान्यादेर्वीवधः प्राप्तिरायातिस्तु धनागमः ॥ १२९१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
संपत्संपत्तिलक्ष्म्यौ श्रीर्विपत्तिर्विपदापदौ ।अवसादस्तु सादः स्याद्विषादश्च श्लिकुर्न ना ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
आपद् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अत्ययअत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १५० ॥ Amarakośa 3.3.150
- नामलिङ्गानुशासनम् सङ्गरमुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः । Amarakośa 3.3.316
- कोषकल्पतरु सम्परावतिव्यवाद्व्यतिकरे य[197b]ब्घावन्तर्घौ दुर्गतौ निरः । समः संगति-सादृश्य-संविदाचरणे रणे ॥ समाभियानशपथे संपराभ्यां रणापदोः । अपादपगमेऽथोपादङ्गीकारोपहारयोः ॥ ३० ॥ Koṣakalpataru 3.5.30
- कोषकल्पतरु विपत्तिविपत्तिरापत्तिरिहापदि द्वे । स्तो यातनायामथ संततिः स्त्री । वंशे सुतादौ च परंपरायां स्यात्संमतिः स्वीकृतिवाञ्छयोश्च ॥ ३३ ॥ Koṣakalpataru 6.16.33
- कोषकल्पतरु सङ्गरकालकूटापदोरन्त्यलिङ्गे शमी- जे फले वर्करः स्याद्वयःस्थे पशौ । नर्मभेदेऽप्यथो कर्करो दर्पणे भेद्यलिङ्गस्त्वसौ कीर्तितो ज्ञैर्दृढे ॥ ३३ ॥ Koṣakalpataru 6.27.33
- नानार्थार्णवसंक्षेप सङ्गरसङ्गरस्तु प्रतिज्ञायां क्रियाकारे च नापदि । युद्धे विषे तु रभसः क्लीबं तु स्याच्छमीफले ॥ १८७३ ॥ Nānārthārṇavasaṃkṣepa 4.1873
- शब्दरत्नावली आपत्तिआसत्तिर्लाभसंगत्योरापत्तिः प्रापणापदोः । स्यादुदन्तः पुंसि साधौ वार्तायां वृत्तियोजने ॥ Śabdaratnāvalī 7.16.88
- शब्दरत्नावली विपत्तिविदितञ्चाप्युपगमे ज्ञाते स्यादभिधेयवत् । विपत्तिर्यातनायाञ्च घातने चापदि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.139
- शब्दरत्नावली सम्परायआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
- वैजयन्ती सांपरायसांपरायस्तु संग्राम आपदागामिकालयोः । स्थूलोच्चयस्त्वसाकल्ये गजानां मध्यमे गते ॥ ४८ ॥ Vaijayantī 8.1.48