वधूटी
vadhūṭīस्त्री · fem.In 12 kośas: 16 synonym verses.
सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी ।पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ ॥दारा क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी ॥ ५१३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्ववासिनी चरिण्टी च चिरिण्टी च चरण्ट्यपि ।वधूट्यां पत्न्यां करात्ती गेहिनी सहधर्मिणी ॥ ४० ॥सधर्मचारिणी चापि स्नुषायां तु वधूट्यपि ।
अनुष्टुप्
genderस्त्रीfem.
अदृष्टरजसं नारीं नग्निकां ब्रुवते बुधाः ।वधूटी च चिरण्टी च द्वितीयवयसौ स्त्रियौ ॥ ४८४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री वधूटी वधू रामा मत्तकाशिनितम्बिनी ।वरारोहा भोगवती कामिनी वामलोचना ॥ ३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
पुरन्ध्री स्यात् पुरन्ध्रिश्च युवतिर्युवती समे ।तरुणी तलुनी प्रोक्ता वधूटी वधूका वधूः ॥ १६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 धू (wrong syllable)
genderस्त्रीfem.
राकाथ तरुणी तल्ली तरुणी युवतीश्वरी ।दिक्करी काहली चाथ वधूटी वर्वटी जनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
वधूः स्नुषा सुतस्त्री स्याच्चिरण्टी तु स्ववासिनी ।पतिप्रिया वधूटी च सुभगा च सुवासि[75a]नी ॥ २० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
जटा कुरण्टी च सटा वधूटीस्याद्ग्रामटी खट्यपटी वटी च ।नटिश्छटा स्याच्छकटिर्घटा चमाटिर्भुषण्ठिश्च मतात्र शुण्ठी ॥ ४६ ॥
उपजातिः
genderस्त्रीfem.
वधूटी च चिरण्टी स्यात्सुवासिन्यपि कथ्यते ।पत्नी पाणिग्रहीत्री तु गृहा दाराश्च भूमनि ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.
वधूटी वध्वटी चैव चिरण्टी च सुवासिनी ॥ ८०१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सूनोः स्नुषा वधूटी च जनी वधूश्च मन्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderस्त्रीfem.
दिक्करी वनिका चेति धनीकापि च कुत्रचित् ।स्नुषा वधुर्वधूटी स्याद् जनी च जनिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
सुवासिनी स्ववासिनी वधूटी वध्वटीति च ।चिरिण्टी स्याच्चिरण्टी च चरिण्टी सचरण्टिका ॥ ११७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 सि (wrong syllable)
genderस्त्रीfem.
जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्ध्रिः पुरन्ध्र्यपि ।स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्नुषा वधूटी मधुरनिस्वना हंसगद्गदा ।सुखोष्णशीता तुहिनग्रीष्मयोर्वरवर्णिनी ।क्रोधना भामिनी चण्डी दारुस्त्रीशालभञ्जिका ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
वधूटी च चिरंटी च द्वितीयवयसि स्त्रियाम् ।स्वैरिणी धर्षिणी पुंश्चल्यसती कुलटेत्वरी ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.