कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षतज

kṣatajaक्ली · neut.

In 13 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.365 · p. 27
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.111
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.632 · p. 72
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.224 · p. 45
स्यादस्रं रुधिरं शोणं वर्मजं लोहलोहिते ।कीलालं क्षतजं विस्रमसृक् चर्मसमुद्भवम् ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 188 · p. 89
मर्म कोषं च कलहं परिवादं छलं नयेत् ।शोणितं लोहितं रक्तं रुधिरं क्षतजासृजम् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.278 · p. 135
आग्नेयं लोहितं विस्रं वाशिष्ठं प्राणदं समम् ।आसुरं क्षतजं चास्रमसृग्मांसकरं हि तत् ॥ २७८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.63 · p. 40
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1001 · p. 154
अस्रमसृक् च वाशिष्ठं प्राणदं क्षतजं तथा ।विस्त्रं रसभवं शोध्यं मांसकारि च शोणितम् ॥ १००१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.252 · p. 99
रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् ।लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1113 · p. 137
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.105 · p. 181
रुधिरं लोहितं रक्तमस्रं क्षतजमासुरम् ।रोक्यं शोध्यं मांसकरं रसतेजो रसोद्भवम् ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.

क्षतज as a meaning in nānārtha verses

  • धरणिकोश रक्तरक्तं क्षतजकाश्मीरलोहितेषु प्रयुज्यते । नील्यादिरञ्जिते शुद्धे रक्तं रक्तोऽनुरागिणि ॥ Dharaṇikośa 15.3.5
  • तन्त्राभिधान रक्षतजस्थं व्योमवक्त्रं बिन्दुखण्डेन्द्वलङ्कृतम् । खद्योतमिति संप्रोक्तं ग्रासिनी कालरात्रियुक् ॥ह्रं ह्रुं॥ Tantrābhidhāna 10.45