कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रुधिर

rudhiraक्ली · neut.

In 16 kośas: 14 synonym verses, 7 as a nānārtha head word, 20 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.365 · p. 27
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.111
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.632 · p. 72
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.224 · p. 45
स्यादस्रं रुधिरं शोणं वर्मजं लोहलोहिते ।कीलालं क्षतजं विस्रमसृक् चर्मसमुद्भवम् ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 117 · p. 59
चेलं निवसनं वासक्षीरमम्बरमंशुकम् ।वस्त्राद्यन्तः दिगाद्यादिसंज्ञितो वृषभेश्वरः ।कुङ्कुमं रुधिरं रक्तं कस्तूरी मृगनाभिजम् ॥ ११७ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 188 · p. 89
मर्म कोषं च कलहं परिवादं छलं नयेत् ।शोणितं लोहितं रक्तं रुधिरं क्षतजासृजम् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.63 · p. 40
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1000 · p. 154
आग्नेयं रुधिरं रक्तं रसतेजश्च लोहितम् ॥ १००० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.252 · p. 99
रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् ।लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.184 · p. 24
रुधिरो लोहिताङ्गोऽथ सौम्यश्चान्द्रमसायनिः ।रौहिणेयो बुधः शक्रसचिवस्तु बृहस्पतिः ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1113 · p. 137
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.45 · p. 39
क्रोधिनी च भुजङ्गेशो वाली रुधिर-पावकौ ।रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.32 · p. 19
कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ र्हषुलः ।बुधः श्यामांग एकांगः सौम्यश्चान्द्रमसायनिः ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.105 · p. 181
रुधिरं लोहितं रक्तमस्रं क्षतजमासुरम् ।रोक्यं शोध्यं मांसकरं रसतेजो रसोद्भवम् ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.26 · p. 169
रुधिरः स्यान्महीपुत्रे रुधिरं कुङ्कुमासृजोः ।मकरो जलचरे राशौ निधिभेदे च कीर्तितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.5 · p. 318
स्याज्झर्झरोऽस्त्री कलिकालवाचीवाद्यप्रभेदे च नदान्तरे ना ।अङ्गारके ना रुधिरोऽथ रक्ते-ऽन्त्येकुङ्कुमेऽग्नौ तु तथेषिरः स्यात् ॥ ५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.1 · p. 33
अथ क्लीबेऽभिधानानि सर्वाणि कुमुदस्य हि ।रजतेऽतिदिशन्त्यार्या रुधिरस्य तु कुङ्कुमे ॥ १ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1517 · p. 179
रुधिरोऽङ्गारके क्ली तु शोणिते कुङ्कुमेऽपि च ।रुचिष्यं तु स्वादमाने त्रिः खद्योते पुनर्द्वयोः ॥ १५१७ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.409 · p. 37
मन्दारः पारिभद्रेऽर्कपर्णे देवमहीरुहे ।रुधिरा रोचनायां च रुधिरं कुङ्कुमेऽसृजि ॥ ४०९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.97 · p. 273
मुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे ।रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे ॥वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले ।वर्वरः पामरे केशे चक्रले शाकभिद्यपि ॥पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि ।वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.369 · p. 221
गमनोत्सवयोर्यात्रा रुधिरं कुङ्कुमेऽपि च ।वृक्षभित्पापयो रोध्रो दैत्यभेदे मृगे रुरुः ॥ ३६९ ॥
अनुष्टुप्

रुधिर as a meaning in nānārtha verses