कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जरस्

jarasस्त्री · fem.

In 2 kośas: 2 synonym verses, 1 as a meaning of another word.

एतान् शब्दान् यथासङ्ख्यं स्त्रीपुन्नपुंसकेषु विद्धि । इयं तनुः । अयं कायः । इदं शरीरम् । दधिसक्थ्यस्थिशब्दा नपुंसके स्युः । यथा इदं दधि क्षीरविकारः । इदं सक्थि उर्वोर्मध्यम् । इदमस्थि कीकसम् । कक्षाशब्दः स्त्रियां भवेत् यथा इयम् कक्षा बाहुमूलम् । अन्यच्च । "जघनाभरणे स्त्रीणां करीणां मध्यबन्धने । अवस्थासु च हर्म्यानां नित्यं कक्षा व्यवस्थिता ।"सुमनोऽप्सरोविरहितमद्व्यच्कमसन्तन्तु पुंसि स्यात् ।द्व्यच्कं पुनर्नपुंसकप्रकृतादन्यत्र वै जरसः ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderस्त्रीfem.

जरस् as a meaning in nānārtha verses

  • धरणिकोश पाकपाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावके शाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे । किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथा रोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥ Dharaṇikośa 1.1.5