कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तरला

taralāस्त्री · fem.

In 12 kośas: 12 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.65 · p. 19
श्रणाविलेपी तरला यवागूरुष्णिकापि च ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.87
यवागूरुष्णिका श्राणा विलेपी तरला च सा ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.320 · p. 38
यवागूरुष्णिका श्राणा तरला च विलेपिका ।क्षैरेयी पायसं प्रोक्तं परमान्नं च सूरिभिः ॥ ३२० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.83 · p. 211
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ।स्त्रियां कुटी तु तरला परिस्रुन्मादिनीवती ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.27 · p. 10
हरिप्रियाऽम्भोनिधिजा…श्रीःलक्ष्मीन्दिरा पङ्कजमन्दिरा श्रीः ।लक्ष्मीश्च लक्षी तरला रमानाम्आलोकमाता कमलाह्वया सा ॥ २७ ॥
इन्द्रवज्राmetre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 281
श्राणा विलेपी तरला यवागूर्घनसिक्थका ।गारित्रं लड्डुकः पुंसि मोदकोऽस्त्री च सम्मतः ।एलाकर्पूरमरिचकयुक्तोऽसौ सिंहकेसरः ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.10 · p. 117
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.61 · p. 109
दधिमण्डं मस्तुसंज्ञं भक्तोद्भूतं यथा हि तत् ।निस्रावमासराचामा यवागूस्तरला स्त्रियाम् ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.474 · p. 86
भक्तमण्डे तु निस्रावश्चाचामो मासरोऽपि च ।अल्पान्नभवबाहुल्यपेयादौ तरलापि च ॥ ४७४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.589 · p. 76
श्राणा सैव विलेपी स्यात् तरला तरलं तथा ॥ ५८९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.108 · p. 144
यागूर्यवागूस्तरला खालिः श्राणा विलेपनी ।विलेपी च विलेप्या स्यादुष्णिका च खलीत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.40 · p. 191
विलेपनी विलेप्यापि क्वाथिका क्वथिकाऽपि च ।तरलं तरला, सूपे सूदाप्यथ तिलान्नके ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.459 · p. 42
तरलः पुंसि धत्तूरे यवागूसुरयोः स्त्रियाम् ।तमालस्तिलके कालस्कन्धे च वरुणद्रुमे ॥ ४५९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.67 · p. 281
जाङ्गुली शूकशिम्ब्याञ्च जाङ्गलश्च कपिञ्जरे ।तरला मदिरायाञ्च यवाग्वामपि च स्त्रियाम् ॥तण्डुलो ना विडङ्गे च धान्यादिनिकरेऽपि च ।तमालस्तिलके खङ्गे तापिञ्जे वरणे द्रुमे ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.395 · p. 231
लोहे हारमणौ पुंसि यवाग्वां तरला स्त्रियाम् ।ब्रह्मदारौ पिचौ तूलं स्थूणासादृश्ययोस्तुला ॥ ३९५ ॥
अनुष्टुप्