All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
लिङ्गसङ्ग्रहः · स्त्रीनपुंसकलिङ्गाधिकारः
॥ इति पुंनपुंसकलिङ्गाः ॥
स्त्रीक्लीबयोः क्वचिद्भावकर्मणोः ष्यञ् तथैव वुञ् ।तद्यथार्हन्त्यमार्हन्ती चौरिका चौरिकं तथा ॥ ७६ ॥
4.6.76 · p. 116
अनुष्टुप्
ल्युडकर्तरि चास्थानमास्थानी च तयब्युतम् ।आबनन्तो द्विगुः पञ्चखट्वी स्यात्पञ्चखट्ववत् ॥ ७७ ॥
4.6.77 · p. 116
अनुष्टुप्
पञ्चतक्षी पञ्चतक्षमर्धान्नावः पुरो हितः ।षष्ठ्यन्तप्राक्पदाः सेनाच्छायाशालासुरा निशाः ॥ ७८ ॥
4.6.78 · p. 116
अनुष्टुप्
विद्वत्सेना विद्वत्सेनं कुड्यच्छाया कुड्यच्छायम् ।योषिच्छाला योषिच्छालं ज्ञेयं तद्वच्चान्येभ्योऽपि ॥ ७९ ॥
4.6.79 · p. 116
metre not recognised
वक्रौष्ठिकं वंशिकं च कथानक-कशेरुके ।वाचिकं मधुकं जायौ तादृशं तिन्दुकं फलम् ॥ ८० ॥
4.6.80 · p. 116
अनुष्टुप्
वृत्ते वसन्ततिलकं नखमत्र शुक्तौस्यात्कन्यकुब्जमपि देशगतं च पीठम् ।क्रोडा तु वक्षसि भवेदुडु तद्वदर्णास्थूणाथ संयदपि नक्तमथावहित्थम् ॥ ८१ ॥
4.6.81 · p. 116
वसन्ततिलका
छर्दि[235a]श्च भसदपि सीमग्रामान्ते रसनया रशना ।आच्छोदनं च कल्पंजम्बूफलेऽलाबु तुम्बशुम्बे च ॥ ८२ ॥
4.6.82 · p. 117
metre not recognised
महोदयं कांस्यमृगव्यचव्य-वणिज्यवीर्याणि तमिस्र-शस्त्रे ।त्वक्क्षीरकादम्बर-मन्दिराणिमसूरनासीरयुतानि तद्वत् ॥ ८३ ॥
4.6.83 · p. 117
उपजातिः
गात्रावरे त्विभाङ्गेनगरं स्थाली स्थली कदली ।युगुली जाली गोलाकाहलया पित्तला युक्ता ॥ ८४ ॥
4.6.84 · p. 117
metre not recognised
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
4.6.10 · p. 117
अनुष्टुप्