कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दुकूल

dukūlaक्ली · neut.

In 15 kośas: 10 synonym verses, 9 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.669 · p. 28
क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.113
क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.549 · p. 62
चतुर्विधं तु विज्ञेयं त्वक्सूत्रकृमिरोमजम् ।पत्त्रोर्णं धौतकौशेयं दुकूलं क्षौममिष्यते ॥ ५४९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.283 · p. 51
अथ साधारणं मापं क्षौमं स्यात्प्रावृतं त्रिषु ।दुकूलं च दुगूलं स्यात्कौशेयं कृमिकोशजम् ॥ २८३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.315 · p. 140
तदुत्पत्तिश्चतुर्धास्ति त्वक्फलादिविभेदतः ।पट्टकूलदुगूले तु दुकूलं क्षौममप्यदः ॥ ३१५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.56 · p. 25
क्षौमं दुकूलं दुगुलं पट्टकूलं पटोत्तमम् ।वेषो नेपथ्यमाकल्पमुष्णीषो मूर्धवेष्टनम् ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1088 · p. 168
दुकूलं स्याद्दुगूलं च क्षौमं शणादिजं पटम् ।कार्पासं बादरं फालं कार्पासोत्थं हि कर्पटम् ॥ १०८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.361 · p. 106
क्षौमं क्षोमं दुकूलञ्च सूक्ष्मवस्त्रे भवेत् त्रयम् ।निवीतं प्राकृतञ्चेति वस्त्रे परिहिते त्रिषु ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.219 · p. 206
पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा ।वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.122 · p. 168
चण्डातकं वरस्त्रीणां स्यादर्धोरुकमंबरम् ।संव्यानमुत्तरीयं क्षौमं सूक्ष्मं दुकूलं स्यात् ॥ १२२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.42 · p. 197
दुकूलं कथितं क्षौमे दूकूलं शुक्लवाससि ।पटोलावौषधीवस्त्रभेदौ ज्योत्स्नी पटोल्यपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.52 · p. 352
क्षौमे दुकूलं विरले च वस्त्रेजम्बूल उक्तः क्रकचच्छदेऽपि ।जम्बूतरोः स्याद्विटपेऽथ भीमे-ऽप्युत्तालमू [र्ध्वो]त्कटयोः कराले ॥ ५२ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.38 · p. 36
क्लेदेऽथ तोदनं तोत्रे व्यथने द्रविणं पुनः ।धने बले दुकूलं तु क्षौमेऽन्ये सूक्ष्मवाससि ॥ ३८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.39 · p. 36
शुक्लवस्त्रे परेऽथ स्याद् दौहृदं दोहलाहये ।इच्छाविशेषे गर्भिण्या द्विहृत्त्वे रभसः पुनः ॥ ३९ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.243 · p. 193
दग्धभासितयोश्चाथ दायादो ज्ञातिपुत्रयोः ।दुकूलं पट्टकूले स्याद्दले भूर्जस्य सम्मतम् ॥ २४३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.69 · p. 281
दुकूलं श्लक्ष्णवसने क्षौमेऽपि च निगद्यते ।धवली धेतुभेदे स्याद्धवलापि च कुत्रचित् ॥
अनुष्टुप्
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 225 · p. 542
दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीयेऽसितांशुके ॥ २२५ ॥
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.397 · p. 232
दुकूलं श्लक्ष्णवस्त्रेऽपि चार्द्धे पत्रे छदे दलम् ।धवला गवि ना शण्डे शुक्लसुन्दरयोस्त्रिषु ॥ ३९७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.18 · p. 251
दुकूलं शुक्लवस्त्रेऽपि द्योतनं दीपनेऽक्ष्णि च ।धाराग्रमवतारेऽश्रौ निमित्तं हेतुलक्षयोः ॥ १८ ॥
अनुष्टुप्

दुकूल as a meaning in nānārtha verses

  • धरणिकोश क्षौमश्यामो दमनके श्यामे क्षौमं पट्टदुकूलयोः । प्रक्रमोऽवसरे क्रान्तौ विभ्रमो भ्रान्तिहावयोः ॥ Dharaṇikośa 24.1.4
  • कोषकल्पतरु क्षौमध्वाङ्क्षे दण्डधरे यमोऽपि यमजे स्यात्संयमे तादृशः । शारीरेऽपि च नित्यकर्मणि भवेत्स्यादानुपूर्व्यां क्रमः । शक्तौ कल्पपदक्षिपो(?)रथ भवेत्क्षौमं दुकूलेऽस्त्रिया- मट्टे स्यादतसीकृते च वसने क्षेमं पुनर्न स्त्रियाम् ॥ ५८ ॥ Koṣakalpataru 6.25.58
  • कोषकल्पतरु खर्मखर्मं दुकूलेऽपि च पौरुषे च घर्मो निदाघे च तथातपे ना । स्वेदोदके चोष्णगतस्तु न स्त्री क्लीबे तु[32a]जिह्म तगरद्रुमे स्यात् ॥ ६८ ॥ Koṣakalpataru 6.25.68
  • शब्दरत्नावली क्षौमअस्त्रियान्तु शुभे वल्ये क्षेमा गौर्य्यामपि स्त्रियाम् । क्षौमं स्याद्दुकूले चाट्टे पुनपुंसकयोरिह ॥ क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् । खर्मश्च पौरुषेऽपि स्यात्कोषजांशुक इत्यपि ॥ गमो नाक्षविवर्ते स्यादपर्यालोचिते पथि ॥ Śabdaratnāvalī 7.25.7
  • त्रिकाण्डशेष क्षौमरेतोनिकामकाम्येषु कामं पुंसि स्मरेच्छयोः । क्षौममट्टे दुकूले च ग्रामः संवसथे स्वरे ॥ २९५ ॥ Trikāṇḍaśeṣa 3.3.295