क्षौम
kṣaumaक्ली · neut.In 15 kośas: 26 synonym verses, 5 as a nānārtha head word, 9 as a meaning of another word.
त्वक्फलकृमिरोमभ्यः संभवत्वाच्चतुर्विधम् ॥ ६६८ ॥क्षौमकार्पासकौशेयराङ्कवादिविभेदतः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ ॥
अनुष्टुप्
genderक्लीneut.
प्राकाराग्रं कपिशीर्षं क्षौमाट्टाट्टालकाः समाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
genderक्लीneut.
स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् ।
अनुष्टुप्
genderपुंक्लीm. n.
genderविadj.
क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
चतुर्विधं तु विज्ञेयं त्वक्सूत्रकृमिरोमजम् ।पत्त्रोर्णं धौतकौशेयं दुकूलं क्षौममिष्यते ॥ ५४९ ॥
अनुष्टुप्
genderक्लीneut.
दावो दवश्चोपतापे विपिने विपिनानले ।क्षेमं क्षौमं च निर्दिष्टं कोविदैरष्ट(?)वस्त्रयोः ॥ २७१ ॥
अनुष्टुप्
genderक्लीneut.
स्थूणास्तम्भः पुमान्नासादारु द्वारोपरि स्थितम् ।क्षौमं वा पुंसि चाट्टालो गृहस्योपरिभूमिकम् ॥ ७० ॥
अनुष्टुप्
genderपुंक्लीm. n.
अथैतेषां प्रभेदाः स्युस्तत्र वल्कलजान्यपि ।क्षौमाण्यस्त्री पवित्राणि शाणान्यावपनानि तु ॥ २७५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अथ साधारणं मापं क्षौमं स्यात्प्रावृतं त्रिषु ।दुकूलं च दुगूलं स्यात्कौशेयं कृमिकोशजम् ॥ २८३ ॥
अनुष्टुप्
genderक्लीneut.
अन्तःपुरं च राज्ञां यत्स्त्रीजनस्य निकेतनम् ।अट्टोऽस्त्र्यट्टालको द्वंद्वे क्षौमं कथितमस्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्षौमादि त्वङ्मयं वाल्कं क्षौममस्त्री दुकूलकम् ।दुगूलकं च चरमे कार्पासं बादरं फलात् ॥ ८४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
संक्रमोद्यमसंक्रामकुसुमक्षौमगुल्मवत् ।घर्म उष्णे कुङ्कुमोऽथ संपरायो रणार्थकः ॥ ५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तदुत्पत्तिश्चतुर्धास्ति त्वक्फलादिविभेदतः ।पट्टकूलदुगूले तु दुकूलं क्षौममप्यदः ॥ ३१५ ॥
अनुष्टुप्
genderक्लीneut.
कुट्टिमः कुसुमः क्षेमक्षौमौ संगम इत्यपि ।कषायाः प्रमयो वाजपेयतूर्यौ च गोमयम् ॥ १५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
काश्मीरलोमं काश्मीरं कम्बलो वर्णकम्बलः ।कौशेयं पट्टकूल्लाह्वं क्षौमं कीटान्त्रतन्तुजम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
क्षौमं दुकूलं दुगुलं पट्टकूलं पटोत्तमम् ।वेषो नेपथ्यमाकल्पमुष्णीषो मूर्धवेष्टनम् ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
अट्टमट्टालकं क्षौमं गृहस्योपरिभूमिका ।चित्रशाला चतुर्द्वारं चन्द्रशाला शिरोगृहम् ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
दुकूलं स्याद्दुगूलं च क्षौमं शणादिजं पटम् ।कार्पासं बादरं फालं कार्पासोत्थं हि कर्पटम् ॥ १०८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अट्टश्चट्टालकः क्षौमं सालोपरि समस्थलम् ।सैन्यगृहं कोट्टोपरि प्रोक्तं तूपरिमालके ॥ १६८१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अन्तःपुरन्तु शुद्धान्तस्त्ववरोधोऽवरोधनम् ।अट्टः क्षौमः क्षोममस्त्री प्राकाराग्रगृहे त्रयम् ॥
अनुष्टुप्
genderपुंmasc.
फलवल्कलरोमणि कृमिश्च वस्त्रयोनयः ।फालं वादरकार्पासं क्षौमादि वाल्कवाल्कलम् ॥
metre not recognised
genderविadj.
क्षौमं क्षोमं दुकूलञ्च सूक्ष्मवस्त्रे भवेत् त्रयम् ।निवीतं प्राकृतञ्चेति वस्त्रे परिहिते त्रिषु ॥
अनुष्टुप्
genderक्लीneut.
वेश्यागृहे कायमानं तथेदं केलिमण्डपे ।अट्टालयोऽट्टः क्षौमोऽस्त्री तलिन्यट्टालिके समे ॥ ३३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चण्डातकं वरस्त्रीणां स्यादर्धोरुकमंबरम् ।संव्यानमुत्तरीयं क्षौमं सूक्ष्मं दुकूलं स्यात् ॥ १२२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
ध्वाङ्क्षे दण्डधरे यमोऽपि यमजे स्यात्संयमे तादृशः ।शारीरेऽपि च नित्यकर्मणि भवेत्स्यादानुपूर्व्यां क्रमः ।शक्तौ कल्पपदक्षिपो(?)रथ भवेत्क्षौमं दुकूलेऽस्त्रिया-मट्टे स्यादतसीकृते च वसने क्षेमं पुनर्न स्त्रियाम् ॥ ५८ ॥
शार्दूलविक्रीडितम्
आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि ।उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् ।उपासनं शराभ्यासे सेवनासनयोरपि ॥कपीतनश्चलदले गर्दभाण्डे शिरीषके ।आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् ।क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् ।कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः ।केशरी सिंहपुन्नागनागकेशरवाजिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
अस्त्रियान्तु शुभे वल्ये क्षेमा गौर्य्यामपि स्त्रियाम् ।क्षौमं स्याद्दुकूले चाट्टे पुनपुंसकयोरिह ॥क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् ।खर्मश्च पौरुषेऽपि स्यात्कोषजांशुक इत्यपि ॥गमो नाक्षविवर्ते स्यादपर्यालोचिते पथि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कू (wrong syllable)
क्षौम as a meaning in nānārtha verses
- धरणिकोश खर्मभूमिभुवौ स्थानमात्रे जामिः स्वसृकुलस्त्रियोः । खर्मं स्यात्पौरुषे क्षौमे आमोऽपक्वे गदान्तरे ॥ Dharaṇikośa 24.1.3
- धरणिकोश दुकूलदुकूलं कथितं क्षौमे दूकूलं शुक्लवाससि । पटोलावौषधीवस्त्रभेदौ ज्योत्स्नी पटोल्यपि ॥ Dharaṇikośa 27.2.42
- कोषकल्पतरु अट्टाखेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके- ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा । पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणे पीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥ Koṣakalpataru 6.10.9
- कोषकल्पतरु दुकूलक्षौमे दुकूलं विरले च वस्त्रे जम्बूल उक्तः क्रकचच्छदेऽपि । जम्बूतरोः स्याद्विटपेऽथ भीमे- ऽप्युत्तालमू [र्ध्वो]त्कटयोः कराले ॥ ५२ ॥ Koṣakalpataru 6.28.52
- नानार्थार्णवसंक्षेप दुकूलक्लेदेऽथ तोदनं तोत्रे व्यथने द्रविणं पुनः । धने बले दुकूलं तु क्षौमेऽन्ये सूक्ष्मवाससि ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 3.3.38
- शब्दरत्नावली अट्टअट्टं भक्ते पुंसि शुष्के क्षौमेऽत्यर्थे गृहान्तरे ॥ इष्ट आशंसिते पूज्ये क्रतौ ना प्रेयसि त्रिषु । संस्कारे क्लीबलिङ्गं स्याद् व्रते च क्रतुकर्मणि ॥ Śabdaratnāvalī 7.11.2
- शब्दरत्नावली दुकूलदुकूलं श्लक्ष्णवसने क्षौमेऽपि च निगद्यते । धवली धेतुभेदे स्याद्धवलापि च कुत्रचित् ॥ Śabdaratnāvalī 7.28.69
- त्रिकाण्डशेष अट्टकाके निम्बे च लशुने गर्त्ते कूपे खलेऽवटः । अत्यर्थक्षौमयोरट्टः कृताविष्टं प्रिये त्रिषु ॥ ९१ ॥ Trikāṇḍaśeṣa 3.3.91
- वैजयन्ती अट्टअट्टावतिशयक्षौमावर्घौ पूजाप्रतिक्रयौ । अर्याः शास्तृस्वामिवैश्याः सर्पे वृत्त्रासुरेऽप्यहिः ॥ ५ ॥ Vaijayantī 6.1.5