महत्
mahatवि · adj.In 15 kośas: 23 synonym verses, 6 as a nānārtha head word, 32 as a meaning of another word.
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
genderविadj.
वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च ।व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥
आर्या
genderविadj.
विशंकटं पृथु महद्विशाला च विसंकटा ।स्त्रियां क्लीबे च विकटं पुंसि क्लीबे स्त्रियामिमे ॥ ११४ ॥
अनुष्टुप्
genderविadj.
शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् ।महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
भसत्संपत्ककुत्पर्वमहद्वृषत्पुरीतताम् ।स्याद्रोम्णोऽह्न इतीहोक्ताः क्लीबप्रकृतयोऽथ तु ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्वृ (wrong syllable)
genderक्लीneut.
तीक्ष्ण[30b]कीलः श्वेतवर्मपादपश्च प्रकीर्तितः ।कृष्णोऽन्यो गंच(?)पिण्डीतो महापिण्डीतको महान् ॥ ६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्याप्तमुपसंपन्नमिष्टं क्लीबे यथेप्सितम् ।सर्पिर्मज्जा वसा तैलमिति स्नेहचतुष्टयी ॥द्वाभ्यां तु यमकस्ताभ्यां त्रिभिस्त्रिवृन्नामकः ।महांश्चतुर्भिरुदितो वैद्यशास्त्रविचक्षणैः ॥स्नेहमात्रोत्तमानन्ना प्राग्भक्ताल्पावपीडकः ।पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरः ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 वृ (syllables merged)
genderपुंmasc.
महानूरद्ध्वः प्रतमको द्विधा हिक्का च हिक्कितम् ।भेदाः क्षुद्रा च यमला गम्भीरा महतीति च ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
उरु व्यूढं च विपुलं स्फारं गुरु ततं बृहत् ।महद्बहु च विस्तीर्णं वरीयस्तु वरिष्ठवत् ॥ ८५ ॥
अनुष्टुप्
genderविadj.
वार्तं दुरितं पृषत्तु बिन्दौजगन्महत्सूनृत जृम्भिते च ।अङ्गारितं यातु च शीतमत्या-हितं च वाहित्थवदुक्थ-गूथे ॥ १०० ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
स्फारं विशङ्कटं चोरु विस्तीर्णविपुले महत् ।बृहत्ततं तथानाहो दैर्घ्यमायामसंज्ञकम् ॥ ३२० ॥
अनुष्टुप्
genderविadj.
आर्तवं पौतवं साध्वसं साहसकशेरुणी ।शयातुवीक्षपर्वाणि ककुन्महदहानि च ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी ।श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
बृहद्विशालं विस्तीर्णं महच्च विपुलं पृथु ।कठोरः कठिनो रूक्षो निष्ठुरः कर्कशः खरः ॥ ९४ ॥
अनुष्टुप्
genderविadj.
विशङ्कटं विशालं च विस्तीर्णं विकटं महत् ।वरिष्ठं विपुलं व्यूढं वड्रं ततं तथा बृहत् ॥ २६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
अप्राग्र्यं न द्वयोरेते अप्रधानोपसर्जने ।बृहद्विशालपृथुलं महत् पृथुविशङ्कटकम् ॥
अनुष्टुप्
genderविadj.
गोक्षुरः पञ्चकं चैतद्ध्रस्वपञ्चकनामकम् ।बिल्वकाश्मर्यतर्कारीपाटलाडुण्डुकैर्महत् ॥ १४६७ ॥
अनुष्टुप्
genderक्लीneut.
महान् भद्रश्च विपुलपीव्नी तु स्थूलपीवरे ।दभ्रमल्पं कृशं सूक्ष्मं स्तोकं च क्षुल्लकं तनु ॥ १५९७ ॥
अनुष्टुप्
genderविadj.
पुण्ड्रेक्षौ पुण्ड्रकः सेव्यः पुण्ड्रकोऽतिरसो मधुः ।श्वेतकाण्डो भीरुकस्तु हरितो मधुरो महान् ॥
अनुष्टुप्
genderपुंmasc.
महांस्तु लैंगिको ब्रह्मा लिंगज्येष्ठश्च चेतना ।मनीषा शेमुषी बुद्धिर्धीः पूः ख्यातिर्विदा बुधा ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्महश्च क्रमाल्लोका महरेव महानपि ।प्राजापत्यो जनस्तस्मात् गोलोकस्तु तपो नपुम् ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
स्नेहं सेव्यं महच्छुद्धं धरुणं सर्वतोमुखम् ।पातालं स्वादु दिव्यं च तानि पंचदशाप्स्वपि ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
तत्स्त्री नारदवल्लकीगतमथ क्लीबे पृषद्बिन्दुषुप्रायो भूम्नि मृगे तु पुंसि परवत्स्याच्छ्वेतबिन्द्वन्विते ।वायौ पुंसि जगज्जगच्च चरमे लोकेऽन्यवज्जङ्गमेस्त्री भूमौ भुवने जनेष्वपि तथा छन्दोन्तरे कीर्तितम् ॥ २२ ॥
शार्दूलविक्रीडितम्
meaningsनारदवल्लकी
doubtful
महत् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् उदारउदारो दातृमहतोरितरस्त्वन्यनीचयोः ॥ १९२ ॥ Amarakośa 3.3.192
- धरणिकोश तुङ्गतुङ्गो महति पुन्नागे तुङ्गी रात्रिश्च वर्वरा । वङ्गो जनपदे ख्यातो वङ्गं कर्पासरङ्गयोः ॥ Dharaṇikośa 3.2.1
- धरणिकोश पृथुपृथुरादिनृपे प्रोक्तः कृष्णजीरे महत्यपि । ग्रन्थिर्व्याघिविशेषः स्याद्ग्रन्थिः कौटिल्यपर्वणोः ॥ Dharaṇikośa 16.2.3
- धरणिकोश उदारकिंशारुः सस्यशूकं स्यात्किंशारुर्विशिखो मतः । उदारो दातृमहतोरुदारं दक्षिणं विदुः ॥ Dharaṇikośa 26.2.53
- धरणिकोश गुरुगुरुर्महति विख्यातो दुर्जरालघुनोर्गुरुः । गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ Dharaṇikośa 26.3.18
- धरणिकोश विपुलअनिलो वसुभेदे स्यादनिलो मारुतेऽपि च । विपुलो महति ख्यातो मेरौ मन्ये ? हिमाचलः ॥ Dharaṇikośa 27.2.20
- कोषकल्पतरु पृथुनील्यां स्त्र्यथ स्याद्द्रवनिष्पवायां क्वाथो विपाके व्यसने च दुःखे । पृथुस्तु वैश्वानरराजभेद- त्वक्पत्रिका मेचकजीरके ना । त्रय्यां महत्येष हुताशने तु तुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥ Koṣakalpataru 6.18.95
- कोषकल्पतरु बह्वपद्वो रथे स्यादपि भूमिलोके बह्व(प्राध्व)स्तु मार्गे महति त्रिलिङ्गः । अश्वस्तुरङ्गे नरभिद्यपि स्यात् विश्वे तु पुं भूम्नि सुरप्रभेदे ॥ ३ ॥ Koṣakalpataru 6.29.3
- कोषकल्पतरु महिषवाहद्विषि[86a]स्यान्महिषस्तथैव महत्यसौ स्त्री नृपतेः स्त्रियां च । स्यात्ताविषाभस्तविषः समुद्रे नाके च भेले व्यवसायकेऽपि ॥ ५७ ॥ Koṣakalpataru 6.30.57
- नानार्थार्णवसंक्षेप उक्षन्उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः । सन्ध्याप्रभातयोर्नप्स्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥ Nānārthārṇavasaṃkṣepa 2.5.107
- नानार्थार्णवसंक्षेप ऋष्वऋश्यः पुंस्यृषिभेदे स्यान्मृगजात्यन्तरे द्वयोः । ऋजुस्त्रिर्नायकेऽर्थे ना हिंस्रे त्वृष्वो महत्यपि ॥ ११७ ॥ Nānārthārṇavasaṃkṣepa 2.5.117
- नानार्थार्णवसंक्षेप पुरुगङ्गाद्वारप्रदेशस्थे मनुष्ये तु द्वयोरयम् । महति त्रिषु नैरुक्ताः पुनर्बहुषु मन्वते ॥ ७९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.797
- नानार्थार्णवसंक्षेप बर्हिस्षष्ठे शरीरधातूनां बलयुक्ते(पु?तु) स त्रिषु । बर्हिस्तु क्ली कुशे यज्ञे जल व्योम्नि महत्यपि ॥ ८४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.848
- नानार्थार्णवसंक्षेप बृहत्क्ली त्रिर्महति तत्रापि स्त्र्यर्थे स्याद्बृहतीत्यथ । प्रसहासंज्ञवार्ताक्यामिति केचिदथापरे ॥ ८७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.871
- नानार्थार्णवसंक्षेप महिउदाहृतो ह्यसौ भागवृत्तिकारेण वाक्तिनः । इत्यत्र कृदिकारान्तो महति त्वेष भेद्यवत् ॥ ९५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.955
- नानार्थार्णवसंक्षेप यवायन्त्रणायां तु नाथ स्त्री यवा रश्मिमनीषयोः । भेद्यलिङ्गं तु महति यवोत्पत्त्युचिते पुनः ॥ १०४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1046
- नानार्थार्णवसंक्षेप वर्ष्मन्सुश्रुतिस्तु महत्याह सज्जनस्तु पठत्यदः । शुष्मसंज्ञबलेऽन्यस्तु वदत्युच्छ्रायवाचिनम् ॥ १२०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1209
- नानार्थार्णवसंक्षेप उदारउदारो महति ख्याते दानशौण्डविदग्धयोः । उत्तालं पुनरुत्तान उन्नतोच्चण्डयोरपि ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 3.4.16
- नानार्थार्णवसंक्षेप अद्भुतनाद्भुतो वैश्वदेवाग्नौ महदाश्चर्ययोस्त्रिषु । अखातं क्ली देवखातजलाधारेऽथ भेद्यवत् ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 4.56
- नानार्थार्णवसंक्षेप तपसअट्टालिकायां तपसः पुनश्चन्द्रे पुमांस्त्रि तु । महति स्यादथो सूर्ये तरणिर्वारिधावपि ॥ ८३८ ॥ Nānārthārṇavasaṃkṣepa 4.838
- नानार्थार्णवसंक्षेप बहिष्ठस्तने च द्वे तु मत्स्येऽथ बहिष्ठं स्यान्नपुंसकम् । ह्रीबेरे त्रिस्तु महति काके तु बलिभुग्द्वयोः ॥ १२४१ ॥ Nānārthārṇavasaṃkṣepa 4.1241
- नानार्थार्णवसंक्षेप रभसत्रिस्तु स्यान्महति द्वे तु म्लेच्छे रमठ इत्ययम् । त्रिस्तु क्रीडनशीले स्याद् रमणं तु नपुंसकम् ॥ १५०० ॥ Nānārthārṇavasaṃkṣepa 4.1500
- नानार्थार्णवसंक्षेप विहायस्विहाया वियति द्वे तु विहगे महति त्रिषु । स्तेने च ना तु वीरोज्झो योऽग्निहोत्रं स्वयं नहि ॥ १७३६ ॥ Nānārthārṇavasaṃkṣepa 4.1736
- नानार्थार्णवसंक्षेप महाराज(म?न)खे वैश्रवणे राज्ञि महत्यथ महाबुसः । यवे हायनसंज्ञे च धान्येऽथ स्यान्महामुनिः ॥ ९८ ॥ Nānārthārṇavasaṃkṣepa 6.98
- शब्दरत्नावली जीमूतजामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि । जीमूतः पर्वते मेघे देवताडे महत्यपि ॥ Śabdaratnāvalī 7.16.103
- शब्दरत्नावली पृथुपीथः पुंसि भास्करेऽग्नौ सलिले तु न पुंसकम् । पृथुरग्नौ नृपे पुंसि निपुणे महति त्रिषु ॥ त्वक्पत्रीकृष्णजिराहिफेणेषु च भवे स्त्रियाम् । प्रोथोऽस्त्री वाजिघोणायां कटे ना पथिके त्रिषु ॥ Śabdaratnāvalī 7.17.4
- शब्दरत्नावली क्षणदआमोदः पुंसि हर्षे च गन्धे च सुमहत्यपि । ककुदोऽस्त्री ककुत्स्त्री तु वृषाङ्गे च धजेवरे । क्षणदो गणके पुंसि रात्रौ स्त्री क्लीबमहति ॥ Śabdaratnāvalī 7.18.12
- शब्दरत्नावली गुरुत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
- शब्दरत्नावली उदारउदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥ विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥ एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥ कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥ कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ Śabdaratnāvalī 7.27.59
- त्रिकाण्डशेष गुरुखरुरश्वे हरे दर्पे दन्ते श्वेते तु वाच्यवत् । गुरुस्त्रिलिङ्ग्यां महति दुर्ज्जरालघुनोरपि ॥ ३४५ ॥ Trikāṇḍaśeṣa 3.3.345
- वैजयन्ती उदारइरिणं तूषरस्थाने भूभागे च निराश्रये । उदारो महति ख्याते दक्षिणे दानशौण्डके ॥ ४ ॥ Vaijayantī 7.4.4
- वैजयन्ती उदात्तउदूढावूढपृथुलावुत्तमौ प्रवरान्तिमौ । महत्युदात्त उच्चोक्तेऽप्युपोढो निकटोढयोः ॥ ६ ॥ Vaijayantī 7.4.6