भुवन
bhuvanaक्ली · neut.In 21 kośas: 34 synonym verses, 7 as a nānārtha head word, 11 as a meaning of another word.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
genderक्लीneut.
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ।लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
भुवनं विष्टपं लोको जगदेकार्थवाचकाः ।अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
भुवन-वलि-वह्नि-विद्या-सन्ध्या-गजजाति-शम्भुनेत्राणि ।त्रिशिरोमौलि-दशा-क्षेत्रपाल-फण-काल-मुनि-दण्डाः ॥ ५ ॥
आर्या
genderक्लीneut.
राज्याङ्ग-धान्य-भुवन-स्वर-कुलपर्वत-नयाः समं तानाः ।भय-सप्तपर्णपर्णा गोदावर्यस्त्वमी सप्त ॥ १७ ॥
आर्या
genderक्लीneut.
प्रथमजिनभवा-ऽघोषा विश्वेदेवास्त्रयोदश भवन्ति ।विद्यास्थान-स्वर-भुवन-रत्न-पुरुषान्वय-स्वप्नाः ॥ २३ ॥
आर्या
genderक्लीneut.
आलयं भुवनं गेहं गृहं क्षेत्रं च मन्दिरम् ॥ ५२ ॥
genderक्लीneut.
स्यात्स्त्रियां जगती क्लीबे जगद्विष्टपपिष्टपौ ।अस्त्रियौ भुवनं क्लीबे लोकः स्यात्पुंसि चाप्यथ ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
धरः प्रभासः सोमश्च प्रत्यूषश्च वृकोष्टकः ।भुवनो भावनो दक्षः सुजन्यः सुजनः क्रतुः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
निपानवातायनयोरभिधानखलीनयोः ।भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥ १६७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कमलं क्षीरं भुवनोस्वीस्यं(?)घनरसं कुशम् ।यादो वासो(?)वर्णसिर्ना नोडुः पुंसि स्त्रियां त्विरा ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रं (wrong syllable)
genderक्लीneut.
मरुर्धन्वा जाङ्गलोऽथ जगती वैष्ट्रकं जगत् ।भुवनं विष्टपं चास्त्री पिष्टपं विश्वमन्तिमे ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
राजादनमनुमानंभवनं भुवनं च केतनं लोम ।दीपश्चापः स्तूपःशूर्पावापोडुपाः कशिपुः ॥ ५३ ॥
metre not recognised
genderपुंक्लीm. n.
यावच्छ्लोकं तन्नियमे तल्लेशे तु घृतप्रति ।प्रत्यग्व्यत्यस्याभिमुखे भुवनं तु वनीतिकम् ॥ ८३ ॥
अनुष्टुप्
genderअindecl.
विष्टरं मल्लिकापीठमासन्दीमासनं विदुः ।विष्टपं भुवनं लोको जगत् तस्य पतिर्जिनः ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
विष्टपं भुवनं विश्वं जगल्लोको जगत्यपि ।जीवः स्यात्पुरुषः क्षेत्रज्ञात्मानावसुमानथ ॥ २५५ ॥
अनुष्टुप्
genderक्लीneut.
वातायनाभिधानानुमानानि खलिनं तथा ।खलीनं भवनं चैव रसोनभुवने समे ॥ १४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
विष्टपं भुवनं विश्वं जगल्लोकश्चराचरम् ।मनुष्यलोकः संसारो नागलोको रसातलम् ॥ १०४ ॥
अनुष्टुप्
genderक्लीneut.
वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् ।जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥
अनुष्टुप्
genderक्लीneut.
लोकः स्याद्भुवनं विश्वं विष्टपं पिष्टपं जगत् ।जगती चेति नामानि लोकानां सप्त सन्ति वै ॥ २४८१ ॥
अनुष्टुप्
genderक्लीneut.
स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि ।निर्जले मरुधन्वानौ खिलमप्रहतं समम् ।त्रिषु स्याज्जगती लोको जगद्भुवनपिष्टपम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् ।जलं जडं च सलिरं सरिलं सलिरं तथा ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderक्लीneut.
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
अथ स्याज्जगती लोको विष्टपं भुवनं जगत् ।ब्रह्मादि स्तम्बपर्यन्तं ब्रह्मस्तम्बोऽखिलं जगत् ॥ ३७० ॥
अनुष्टुप्
genderक्लीneut.
आप्यायनी वासुदेवश्चोर्ध्वदन्तस्त्रिमातृकः ।रथः कपर्दी भुवनं मन्त्रेश ओ-स्वरः स्मृतः ॥ १५ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श (wrong syllable)
genderक्लीneut.
महाभूतानि भूतानि लोको भुवनविष्टपे ।मर्त्यलोको जीवलोको मर्तोऽप्यथ भुवोऽव्ययम् ॥ २०६ ॥
अनुष्टुप्
genderक्लीneut.
अगाधो भुवनं रोकं रन्ध्रं निर्व्यथनं बिलम् ।कुहरं सुषिरं छिद्रं श्वभ्रोऽस्त्र्यक्ली सुषिर्वपा ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
पानीयं जीवनीयं कं जलमंबूदकं दकम् ।विषं पाथो घनपदं भुवनं जीवनं वनम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
पुंस्यप्येके विदुर्लोके क्लीबमेव जले विदुः ।भुजिष्यस्तु द्वयोर्दासे वने तु स क्ली पुमान् पुनः ॥ १३०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
भुवन as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् लोकआकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥ Amarakośa 3.3.2
- धरणिकोश लोकअथ कान्ता निगद्यन्ते पादेन क्रमशस्त्वमी । श्लोको यशसि पद्ये स्याल्लोकस्तु भुवने जने ॥ Dharaṇikośa 1.1.1
- कोषकल्पतरु लोकभुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च । रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥ Koṣakalpataru 6.1.19
- कोषकल्पतरु जगत्तत्स्त्री नारदवल्लकीगतमथ क्लीबे पृषद्बिन्दुषु प्रायो भूम्नि मृगे तु पुंसि परवत्स्याच्छ्वेतबिन्द्वन्विते । वायौ पुंसि जगज्जगच्च चरमे लोकेऽन्यवज्जङ्गमे स्त्री भूमौ भुवने जनेष्वपि तथा छन्दोन्तरे कीर्तितम् ॥ २२ ॥ Koṣakalpataru 6.16.22
- कोषकल्पतरु प्रतलजटायुक्ते तु जटिलोऽन्य[70a]वन्मांस्यां तु स स्त्रियाम् । पाताले भुवने च स्तः सुतलप्रतलाविमौ ॥ १० ॥ Koṣakalpataru 6.28.10
- नानार्थार्णवसंक्षेप विष्टपवेदनायामुपाये च प्रकारे वैरकर्मणि । विष्टपं त्वपि देवानां विमाने भुवने तथा ॥ ७४ ॥ Nānārthārṇavasaṃkṣepa 3.3.74
- नानार्थार्णवसंक्षेप चराचरलोहे घण्टास्वनं लिङ्गसमासाद्यत्र पूर्ववत् । चराचरं क्ली भुवने जङ्गमे तु त्रिषु स्मृतम् ॥ २१५ ॥ Nānārthārṇavasaṃkṣepa 6.215
- शब्दरत्नावली लोकवल्कं स्याद्वल्कले शल्के लोकः स्याद्भुवने जने । अथ वङ्को नदीवक्रे पर्याणाङ्के च तङ्कुरे(?) ॥ Śabdaratnāvalī 7.1.20
- शब्दरत्नावली जगत्स्याज्जगद्भुवने क्लीबं समीरे जङ्गमे त्रिषु । जगती पिष्ठपे भूमौ जनच्छन्दोविशेषयोः ॥ Śabdaratnāvalī 7.16.101
- शब्दरत्नाकर लोकरागोऽलक्तेऽनुरागे च त्विषि वर्णान्तरेऽरुणे । लेपने भोजने लेपो लोकः स्याद्भुवने जने ॥ १९८९ ॥ Śabdaratnākara 4.1.1989
- शब्दरत्नाकर जगतीजगती भुवने भूमौ लताच्छन्दोविशेषयोः । अगलो मोदके मद्ये जरठः कठिनेऽपि च ॥ २०९१ ॥ Śabdaratnākara 4.1.2091