मधुसूदन
madhusūdanaपुं · masc.In 7 kośas: 10 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.
भ्रमरो भसलो भृङ्गो मधुपो मधुलोलुपः ।मधुव्रतो मधुकरो मधुलिण्मधुसूदनः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
पीताम्बरः पद्मनाभो मुकुन्दो मधुसूदनः ।विश्वंभरो विश्वरूपो विश्व[ष्व]क्सेनो वृषाकपिः ॥ १३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
पीताम्बरो मधुरिपुर्मधुभिन्मधुसूदनः ।दैवकीनन्दनः कान्तः पुरुषः पुरुषोत्तमः ॥
अनुष्टुप्
genderपुंmasc.
इन्दिन्दिरः पुष्पकीटः पुष्पलिट् मधुसूदनः ।द्विरेफो मधुलिट् भृङ्गराज-भ्रमर-षट्पदाः ॥
अनुष्टुप्
genderपुंmasc.
ऊः कण्टको रतिः शान्तिः क्रोधनो मधुसूदनः ।कामराजः कुजेशश्च महेशो वामकर्णकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
अर्घीशो दीपिका वामश्रवणो मधुसूदनः ।इन्द्रश्चापः षण्मुखश्च ऊ-कारो रक्षणाभिधः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वामकर्णोऽथ वामांसो दीर्घश्च मधुसूदनः ।इन्द्रचापोऽथ सूक्ष्मश्च षण्मुखः षट्स्वरः स्मृतः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
षण्मुखः क्ष्मा विघ्नहर्त्ता अर्धीशो मधुसूदनः ।दीपिका वामकर्णेन्द्र-चापाः षष्ठस्वरः स्मृतः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः ।इन्दिन्दिरः पुष्पकोटो मधुदो मधुकेशटः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
पद्मनाभो विश्वरूपः कृष्णो हरिरसंपुषः ।कैटभारिर्ब्रह्मनाभो गोविन्दो मधुसूदनः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते ।स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः ।शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् ।भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः ।वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् ।भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥देवदारुणि कालीये न द्वयोर्वरचन्दनम् ।स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी ।वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मधुसूदन as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप ऋभुदेवे विदुषि तु त्रि स्यात् पुमांस्तु मधुसूदने । ज्येष्ठे च ब्रह्मपुत्राणां सनकादिकयोगिनाम् ॥ ११९ ॥ Nānārthārṇavasaṃkṣepa 2.5.119
- तन्त्राभिधान ऊउः शिवः प्रणवं विष्णुर्दक्षकर्णोऽमरेश्वरः । ऊ-रर्घीशो वामकर्णः कथितो मधुसूदनः ॥ ४ ॥ Tantrābhidhāna 1.4