कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

माढि

māḍhiस्त्री · fem.

In 10 kośas: 10 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.20 · p. 44
नवे तस्मिन्किसलयं किसलं पल्लवोऽत्र तु ॥ ११२३ ॥नवे प्रबालोऽस्य कोशी शुङ्गा माढिर्दलस्नसा ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.783 · p. 89
स्मृतं परुषमस्निग्धमाचारातिक्रमः क्रिया ।उच्चण्डमप्रलम्बं स्यान्माढिः पत्त्रशिरा स्मृता ॥ ७८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.34 · p. 136
स्याल्लतायावकं चाथ तच्चेदङ्गुलिसंनिभम् ।स्यादाङ्गुलिकनामा स्यात्कोशी शृङ्गो नरस्त्रियोः ।मर्गटो ना स्त्रियां माढिः पर्वरीणं च तच्छिरा ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 229
पत्राङ्गुलिश्च माढिश्च मालुरस्त्री विशेषकः ।तमालपत्रं पुण्ड्रश्च चित्रकं तिलकोऽस्त्रियाम् ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.36 · p. 56
माढिर्दलस्था शुङ्गा विस्तारे विटपः पुमान् ।पुष्पं मणीवकं सूनं प्रसवः कुसुमं समम् ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (syllables merged)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.61 · p. 218
तूलिर्विष्टिर्गृष्टिवृष्टी शरारि-र्भेरिः पुञ्जिर्मरिर्वल्लरिश्च ।आतिः शारिः फालिगाली मुषुण्ढि-र्माढिश्चारिः काकनिः कानिहानी ॥ ६१ ॥
शालिनीmetre not read in every linenearly शालिनी
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1975 · p. 326
माढिर्दलस्नसा पत्रनाडी बोधाय युज्यते ॥ १९७५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.269 · p. 210
माढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् ।कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥ २६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.448 · p. 59
स्युरुच्छ्रायोच्छ्रयोत्सेधा नगादीनां समुन्नतौ ।माढिः शङ्कुः पत्रसिरा त्रिषु शुङ्गा च कोशिका ॥ ४४८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.18 · p. 46
पत्रमध्यसिरा माढिः पुष्पोऽस्त्री कुसुमं सुमम् ।मणीचकं प्रसूनं च सूनं सुमनसः स्त्रियः ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास ढार्धश्लोकः Dharaṇikośa 13.2.2 · p. 48
माढिः पत्रादिभङ्गे स्यान्माढिर्दैन्यप्रकाशनम् ।शण्ढौ तु गोपतिक्लीबौ शण्ढः स्यात्तु प्रमत्तके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ द्विढाः Koṣakalpataru 6.14.96 · p. 193
राढा तु देशान्तरशोभयोः स्त्रीदाढा तु दंष्ट्रासु मनोरथे च ।माढिस्तु दैन्यप्रकटीकृतौ स्त्रीपत्रादिकानां रचनाविशेषे ॥ ९६ ॥
इन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ढान्ताः Śabdaratnāvalī 7.14.3 · p. 206
दृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः ।माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः ।बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)