कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

ढान्ताः · ढार्धश्लोकः

॥ ढार्धंश्लोकः ॥

व्यूढः पृथुतरे ख्यातो न्यस्तसंहतयोरपि ।दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि ॥
13.2.1 · p. 47
अनुष्टुप्
माढिः पत्रादिभङ्गे स्यान्माढिर्दैन्यप्रकाशनम् ।शण्ढौ तु गोपतिक्लीबौ शण्ढः स्यात्तु प्रमत्तके ॥
13.2.2 · p. 48
अनुष्टुप्
अध्यूढा कृतसापत्न्यामध्यूढो वृद्धिमानयोः ।उपोढः कथितो व्यूढे समासन्ने विवाहिते ।आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः ॥
13.2.3 · p. 48
अनुष्टुप्