वृष्टि
vṛṣṭiस्त्री · fem.In 14 kośas: 12 synonym verses, 7 as a meaning of another word.
वृष्ट्यां वर्षणवर्षे तद्विघ्ने ग्राहग्रहाववात् ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
वृष्टिर्वर्षं वर्षणं च शीकरस्त्वम्भसः कणः ।घनोपलस्तु करकः पुञ्जक्यामटवीति च ॥ ५६ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्षो वृष्टिर्वर्षणं च घनाघनमणिर्मणिः ।वाटिका वटिकश्च स्यात्करकः पुञ्जिकापि च ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
घनाघनो वर्षमस्त्री स्त्री वृष्टिर्वर्षणं च षण् ।वर्षं तस्य प्रतीघाते वग्राहावग्रहौ तडित् ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षणप्रभा च क्षणिका चञ्चला च शतह्रदा ।ऐरावत्यशनिर्द्वंद्वे वृष्टिः स्त्री वर्षमस्त्रि[18b]याम् ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तूलिर्विष्टिर्गृष्टिवृष्टी शरारि-र्भेरिः पुञ्जिर्मरिर्वल्लरिश्च ।आतिः शारिः फालिगाली मुषुण्ढि-र्माढिश्चारिः काकनिः कानिहानी ॥ ६१ ॥
शालिनीmetre not read in every linenearly शालिनी
genderस्त्रीfem.
आवर्तनः पुष्पकश्च पर्जन्य इति कथ्यते ।वृष्टिश्च वर्षणं वर्षं प्रावृषः परिकीर्तितः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्ञायतां वेगवान् वर्षो वातास्तं वारिशीकरः ।वृष्टिश्च वर्षणं वर्षं तदभावस्त्ववग्रहः ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.
ऐरावतं रौहितं स्यादवक्रं यदि तद्धनुः ।वृष्टिर्वर्षं वर्षणञ्च गोघृतञ्च परामृतम् ॥
अनुष्टुप्
genderस्त्रीfem.
अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम् ॥ २६ ॥
genderस्त्रीfem.
वर्षोऽस्त्री वर्षणं वृष्टिः शीकरोऽस्त्र्यंभसः कणः ।घनोपलस्तु करकः पुञ्जिका मटचीति च ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
वृष्टि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वर्षस्याद्वृष्टौ लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम् । Amarakośa 3.3.432
- कोषकल्पतरु वर्षस्यात्स्पर्धनव्याजगतं मिषं च लिप्सापिपासासु पुमांश्च तर्षंः । वर्षं तु न स्त्री किल वत्सरे स्या- द्वृष्टौ तथा स्याद्भरतादिखण्डे ॥ ३६ ॥ Koṣakalpataru 6.30.36
- नानार्थार्णवसंक्षेप वर्षवृष्टौ संवत्सरे जम्बूद्वीपांशे भारतादिके । प्रावृट्संज्ञर्तुभेदे तु वर्षाः स्त्रीभूम्नि ना पुनः ॥ ११६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1166
- नानार्थार्णवसंक्षेप सूचनाद्वे तु श्वक्रोष्टुकाकेषु सूचना तु न ना भवेत् । रभसस्त्वाह वृष्टौ च गन्धने च विचक्षणः ॥ १९९५ ॥ Nānārthārṇavasaṃkṣepa 4.1995
- शब्दरत्नाकर वर्षवसु क्लीबे धने तोये योक्त्रांशुज्वलनेषु ना । वर्षाः प्रावृषि वर्षोऽस्त्री भारताद्यब्दवृष्टिषु ॥ २००६ ॥ Śabdaratnākara 4.1.2006
- वैजयन्ती वर्षवप्रः पितरि ना न स्त्री क्षेत्रे रोधसि सानुनि । वर्षोऽस्त्री भारताद्यब्दवृष्टिषु प्रावृषि स्त्रियः ॥ ७९ ॥ Vaijayantī 6.5.79
- वैजयन्ती असारअसारः स्यात् प्रसरणे वेगवृष्टौ सुहृद्बले । आग्रहः स्यात् स्वीकरणे निर्बन्धेऽनुग्रहेऽपि च ॥ २ ॥ Vaijayantī 7.1.2