कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विंशति

viṃśatiस्त्री · fem.

In 6 kośas: 7 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.491 · p. 187
ह्रस्वान्ता अपि दीर्घान्ताः स्युरेते विंशतिः पुनः ।षष्टिश्च सप्ततिस्तद्वदशीतिर्नवतिः पुनः ॥ ४९१ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः ।विंशतिरानवतेः स्त्री नपुंसके तालुहृदयकुड्यानि ।पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥
metre not recognised
genderस्त्रीfem.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.38 · p. 215
मिन्यनिण्यणयस्त्रयुक्ता विंशत्याद्याः स्त्रियां पुनः ।नरादन्यत्र विट्शब्दो लतागीतिभिदि ध्रुवा ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.164 · p. 148
विंशतिर्विंशती त्रिंशत् स्याच्च द्वाविंशदित्यपि ।पञ्चाशत् षष्ठी षष्टिश्च सप्ततिः सप्ततीत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्ठी (wrong syllable)
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.1 · p. 267
{लिङ्गादिसङ्ग्रहेऽनुक्तममरेणाऽभिदध्महे ।}स्त्रियामाजिर्दरज्जातिः पूरुभाद्राः समाः शरत् ।सिकताद्या बहुत्वेऽपि विंशत्याद्येकवागपि ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.26 · p. 188
चतुःपंचाः पंचषाश्च षट्सप्ताद्याश्च तादृशाः ।स्त्री पड्क्तिर्विंशस्त्रिंशच्चत्वारिंशच्च पंचाशत् ॥ २६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र्विं (syllables merged); pāda 4, syllable 7 चा (wrong syllable)
genderस्त्रीfem.