शीधु
śīdhuपुं · masc.In 11 kośas: 9 synonym verses, 5 as a meaning of another word.
genderपुंmasc.
मध्वासवः शीधु सुरा प्रसन्ना,परिस्रुता स्यान्मदिरा मदिष्ठा ।कादम्बरी स्वादुरसा च शुण्डा,गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
उपजातिः
genderक्लीneut.
श्रोणीबिम्बं कटीसूत्रं मानसूत्रमिवाहितम् ।मदिरां मद्यमैरेयं शीधु कादम्बरीमिराम् ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
गुडयुक्ते च मैरेयो मेराधा(था?)सव इष्यते ।पक्वेक्षुरसमद्येऽथ जङ्ग(ग?)लः शीधु मेदकः ॥ ६२३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मीरादेशसमुत्पन्ना मैरेयः शीधुरासवः ।जगलो मेदकश्चैव मद्यपङ्कः सुराभिदः ॥ १५२१ ॥
अनुष्टुप्
genderपुंmasc.
मध्वासवो माधवको माध्वीकं चषकं मधु ।सैरेयं सीधुकं सीधुः शीधुश्च मद आसवः ॥
अनुष्टुप्
genderपुंmasc.
कपिशं मोहनं कल्यमस्त्रियां मधुशीधुनी ।अनुतर्षस्त्रिसरको मेदको जगलासवौ ॥ १५५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शीधु कश्यमिरा कल्या शुण्डा देवी परिस्रुता ।परिस्रुन्माधवी हाला प्रसन्ना मदिरा सुरा ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
पक्वैस्त्विक्षुरसैरस्त्री शीधुः पंकरसः शिवः ।शीतपंको रूक्षणीयोऽप्यपक्वैरसिकासवौ ॥ ४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शीधु as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप पङ्करसरविवह्योरथो पङ्करसः शीधौ तथा रसे । पङ्कस्याथाम्बुदे स्त्रीणां स्तने मु(क्ते ? स्ते) पयोधरः ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 6.81
- शिवकोष मदग्रन्थिपर्णे तमालेऽपि मदो मार्गे च शीधुनि । मदा तु शीधुपुष्पायां शादो जम्बालशष्पयोः ॥ २२१ ॥ Śivakoṣa 14.1.221
- शब्दरत्नाकर सरकामृद्भेदे शकले खण्डे शर्करायामथ स्त्रियाम् । शीधुपाने मणौ शीधौ सरघा(को?) मद्यभाजने ॥ २१७८ ॥ Śabdaratnākara 4.1.2178
- त्रिकाण्डशेष सरकशीधौ च शीधुपाने च सरकोऽस्त्र्यथ जन्मनि । सूतकं पारदेऽप्यऽस्त्री सूचकौ खलकुक्कुरौ ॥ ४७ ॥ Trikāṇḍaśeṣa 3.3.47
- वैजयन्ती सरकमणौ शीधौ शीधुपाने सरकं मद्यभाजने । सामर्थ्ये शक्तिसंबन्धौ हृदयं तु मनस्यपि ॥ ३८ ॥ Vaijayantī 7.3.38