जगल
jagalaपुं · masc.In 12 kośas: 10 synonym verses, 6 as a nānārtha head word.
जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ९०४ ॥नग्नहुर्मद्यबीजं च मद्यसंधानमासुतिः ।आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ ९०५ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
जाङ्गलो जगलः पङ्के मद्यसन्धानमासुतिः ।आसवो भिषवोऽपि स्यात् किण्वं तु मद्यबीजकम् ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderपुंmasc.
शार्करो माधवो गौडः सितो मधुगुडादियुक् ।जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
रालिरञ्जलिः कला जगलःस्यात्पुद्गलो बहुल-तन्दुल-तालाः ।देवलो जटुलः पोटगलश्चतादृशाः कमल-कामल-वल्लाः ॥ २२ ॥
metre not recognisednearly स्वागता: pāda 1, syllable 6 लः (wrong syllable)
genderपुंmasc.
पुष्यो जनपदो रेफशोफौ सूपनितम्बकौ ।स्तम्बो निकाय्यः कण्डोलजगलौ गोलतण्डुलौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
मीरादेशसमुत्पन्ना मैरेयः शीधुरासवः ।जगलो मेदकश्चैव मद्यपङ्कः सुराभिदः ॥ १५२१ ॥
अनुष्टुप्
genderपुंmasc.
भेदाः स्मरासवो वीरा मेदको जगलो गलः ।सन्धानं स्यादभिषवः सन्धानी सन्धिकेत्यपि ॥
अनुष्टुप्
genderपुंmasc.
कपिशं मोहनं कल्यमस्त्रियां मधुशीधुनी ।अनुतर्षस्त्रिसरको मेदको जगलासवौ ॥ १५५६ ॥
अनुष्टुप्
genderपुंmasc.
जगलोऽथ सनिः सारो मर्कसो मासरोऽपि च ।आसूतिर्मद्यसन्धानमासवोऽभिषवोऽपि च ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
जगलः पैष्टिकमद्ये मदनतरौ मद्यपङ्के ना ।पक्षिणि पिप्पल[69b]आद्ये निरर्गले बोधिवृक्षे तु ।द्वंद्वेऽस्त्रियां तु वसनच्छेदनभेदे कणायां स्त्री ।वारिणि युग्मविहीनः पुंसि तु धवलो महोक्षे स्यात् ॥ २ ॥
उपगीतिःmetre not read in every line
दण्डिकासंज्ञके द्वे तु कोकिले भेद्यवत् पुनः ।जीर्णे भिन्ने परे ना तु जगलं पिष्टमद्यके ॥ ७७४ ॥
अनुष्टुप्
meaningsपिष्टमद्यक
मेदके कितवे तु त्रि जङ्गलस्तु त्रि निर्जले ।देशे क्लीबं तु मासेऽथ जम्बुको वरुणे पुमान् ॥ ७७५ ॥
अनुष्टुप्
doubtful