कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संसिद्धि

saṃsiddhiस्त्री · fem.

In 9 kośas: 5 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.17 · p. 52
स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ ॥शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.38
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.196 · p. 97
भावः स्वभावः सहजो धर्मोऽस्त्री स्वो निसर्गकः ।आजानलक्षणानूकरूपतत्त्वानि शीलकम् ।संसिद्धि-प्रकृती रीतिः शीलीयं शीलजे त्रिषु ॥ १९६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2501 · p. 405
स्वरूपं रूपतत्त्वञ्च सतत्त्वं च स्वलक्षणम् ।आत्मारातिश्च संसिद्धिः प्रकृतिः सहजास्तथा ॥ २५०१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.506 · p. 35
सरोषवभ्रुदृष्ट्यान्तु स्याददृष्टिरदृष्टिका ।स्त्रियां प्रकृतिसंसिद्धी स्वभावो भाव एव च ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास धपादः Dharaṇikośa 18.1.5 · p. 100
संसिद्धिः सहजे सिद्धौ वीरुद्विटपशाखयोः ।विबुधः पण्डिते देवे उत्सेधौ वपुरुन्नती ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.78 · p. 243
ना विटपे शाखायां प्रकृतौ सिद्धौ च संसिद्धिः ।वन्दिनि मागध उक्तः सितजीरे क्षत्रियापुत्रे ॥ ७८ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.100 · p. 9
स्यात् संवित्तिस्तु संवादे ज्ञाने संसिद्धिवाक् पुनः ।सम्यक्सिद्धौ स्वभावे च मेदोग्रायां च कश्चन ॥ १०० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.36 · p. 233
संसिद्धिः स्त्रीमदोग्रायां सिद्धौ च प्रकृतावपि ।समाधिर्नियमे ध्याने तथा काव्यगुणान्तरे ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.29 · p. 249
सिद्धौ स्वभावे संसिद्धिर्वांछानुज्ञा च सम्मतिः ।संवित्ती ज्ञानसंवादौ ह्रादिन्यौ वज्रविद्युतौ ॥ २९ ॥
अनुष्टुप्

संसिद्धि as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) साधनउपकरणे करणे च द्रविणे लिङ्गे च यातनायां च । सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥ Abhidhānaratnamālā (Halāyudha) 5.866
  • कोषकल्पतरु संलिङ्गतिसमो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे ॥ आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये ॥ आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ Koṣakalpataru 3.5.33