स्वभाव
svabhāvaपुं · masc.In 16 kośas: 11 synonym verses, 1 as a nānārtha head word, 75 as a meaning of another word.
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
उन्माथः कूटयन्त्रं स्यादवपातोऽवटः स्मृतः ।धर्मः स्वभावः आत्मा स्यादवेक्षा प्रतिजागरः ॥ ७८२ ॥
अनुष्टुप्
genderपुंmasc.
अवहित्थमपि क्लीबेऽथ स्वभावस्तु पुंस्ययम् ।निसर्गश्च पुनः क्लीबे स्वरूपं रूपमित्यपि ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
भावः स्वभावः सहजो धर्मोऽस्त्री स्वो निसर्गकः ।आजानलक्षणानूकरूपतत्त्वानि शीलकम् ।संसिद्धि-प्रकृती रीतिः शीलीयं शीलजे त्रिषु ॥ १९६ ॥
अनुष्टुप्
genderपुंmasc.
स्वभावः प्रकृतिः शीलं निसर्गो विश्वसो निजः ।योग्या गुणनिकाभ्यासः स्यादभीक्ष्णं मुहुर्मुहुः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
भावो मतमभिप्रायश्छन्द आकूत आशयः ।शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
विधिः कल्पाचारमार्गा वृत्तं शीलं स्वभाववत् ।क्षान्तिः क्षमा तितिक्षा च तपस्या नियमस्तपः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
धर्मः शीलं स्वभावश्च सर्गश्चापि निसर्गवत् ।एतन्नामानि मन्यन्ते स्वरूपस्य बुधैर्भुवि ॥ २५०२ ॥
अनुष्टुप्
genderपुंmasc.
सरोषवभ्रुदृष्ट्यान्तु स्याददृष्टिरदृष्टिका ।स्त्रियां प्रकृतिसंसिद्धी स्वभावो भाव एव च ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
स्वभावः प्रकृती रीतिरवस्था तु दशा स्थितिः ।प्रभावः प्रभवन्ती स्यात् प्रभुता प्रभविष्णुता ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
उदः सामान्यहान्योः स्यादपात्स्याद्दानवर्जने ।न्यासस्वभावयोर्नेस्तावनुज्ञानेऽन्ववद्वयात् ॥ १८ ॥
अनुष्टुप्
meanings
स्वभाव as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सर्गसर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । Amarakośa 3.3.45
- नामलिङ्गानुशासनम् आत्मन्आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥ Amarakośa 3.3.109
- नामलिङ्गानुशासनम् धर्मधर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । Amarakośa 3.3.265
- नामलिङ्गानुशासनम् शीलशीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ॥ २०१ ॥ Amarakośa 3.3.201
- नामलिङ्गानुशासनम् भावभावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । Amarakośa 3.3.396
- हलायुधकोशः (अभिधानरत्नमाला) धातुपृथिव्यादिषु भूतेषु शरीरेषु रसादिषु । लोहेषु च स्मृतो धातुः स्वभावे गैरिकादिषु ॥ ८५७ ॥ Abhidhānaratnamālā (Halāyudha) 5.857
- धरणिकोश सर्गसर्ग उत्साहनिर्माणनिश्चयाध्यायवाचकः । निर्मोक्षे च स्वभावे च सर्गशब्दः प्रयुज्यते ॥ Dharaṇikośa 3.3.12
- धरणिकोश सृष्टिव्युष्टिः फले समृद्धौ च क्लिष्टिः स्यात्क्लेशसेवयोः । सृष्टिः स्वभावे निर्माणे दृष्टिर्धीदर्शनाक्षिषु ॥ Dharaṇikośa 10.1.1
- धरणिकोश आत्मन्आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ॥ Dharaṇikośa 19.3.8
- धरणिकोश रूपरूपमाका … । ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः ॥ Dharaṇikośa 20.3.1
- धरणिकोश धर्मधर्माः पुण्ययमन्यायस्वभावाचारसो[70]मपाः । विदुश्चापे धर्मशब्दमहिंसोपमयोरपि ॥ Dharaṇikośa 24.3.5
- धरणिकोश शीलशीलं स्वभावं सद्वृत्तं चालः स्यात्कम्पनं छदिः । चलः कम्पश्चला लक्ष्मीश्चेलं गर्हितव[89]स्त्रयोः ॥ Dharaṇikośa 27.1.2
- धरणिकोश सत्त्वसत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे । आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥ Dharaṇikośa 28.3.3
- कोषकल्पतरु संलिङ्गतिसमो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे ॥ आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये ॥ आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ Koṣakalpataru 3.5.33
- कोषकल्पतरु सृष्टिदृष्टिर्मतौ दर्शननेत्रयोश्च खड्गे समृद्धौ कथिता च ऋष्टिः । कृष्टिर्बुधे पुंस्यथ कर्षणे स्त्री सृष्टिः कृतौ स्यादपि च स्वभावे ॥ १६ ॥ Koṣakalpataru 6.10.16
- कोषकल्पतरु युवन्अर्वा हयेऽथ त्रिषु कुत्सिते स्या- द्वृषा महेन्द्रेऽपि च कर्ण उक्तः । यक्ष्मा क्षये स्यादपि रोगमात्रे युवा वयःस्थे बलिनि स्वभावे ॥ ८८ ॥ Koṣakalpataru 6.21.88
- कोषकल्पतरु रूपद्रूपं नाणकनाटकादिकसिताद्येषु स्वभावेऽपि च । ग्रन्थावर्तन-पद्ययोः पशुरवे मूर्तौ स्वभावे मृगे सौदर्येऽप्यथ रौद्रनिन्दितगते रेपो भवेद्वाच्यगम् ॥ १ ॥ Koṣakalpataru 6.22.1
- कोषकल्पतरु धर्मभीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणे भेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् । धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता- वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥ Koṣakalpataru 6.25.67
- कोषकल्पतरु कायधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
- कोषकल्पतरु शीलस्वभावसद्वृत्तगमस्त्रि शीलं शिलोपले स्याच्च मनः शिलायाम् । द्वाराधरस्थेऽपि च दारुणि स्याद् गण्डूपदीनाम्नि शिली प्रदिष्टा ॥ Koṣakalpataru 6.28.23
- कोषकल्पतरु स्वअर्थान्तरे त्वव्ययकं स्वभाव- ज्ञात्यात्मसु स्वो नरि के स्वकेऽस्त्री । आत्मीय उक्तः पर[76a]लिङ्गकोऽयं Koṣakalpataru 6.29.2
- कोषकल्पतरु सत्त्वस्त्री तेजनीस्पृक्क्षितिपाङ्गनासु सत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च । गुणेऽसुषु क्लीबमिहात्मतायां द्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥ Koṣakalpataru 6.29.99
- नानार्थार्णवसंक्षेप जातिस्वभावे प्रभवे छन्दोभेदेष्वार्यादिकेष्वपि । ज्यानिस्तु हानौ बुद्धौ च रोगे जिह्वा तु वाचि च ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 2.1.39
- नानार्थार्णवसंक्षेप रीतिप्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 2.1.86
- नानार्थार्णवसंक्षेप सृष्टिलोहप्रतिकृतौ तन्त्रधारिण्यामिति षट्स्वपि । रश्मिमेखलयोः स्यूना सृष्टिस्त्यागस्वभावयोः ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 2.1.124
- नानार्थार्णवसंक्षेप आत्मन्देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 2.2.13
- नानार्थार्णवसंक्षेप धातुस्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे । अस्थ्नि स्वभाव आकारे स्याद्भूवादिसुबन्तयोः ॥ ६५ ॥ Nānārthārṇavasaṃkṣepa 2.2.65
- नानार्थार्णवसंक्षेप सर्गसर्गोऽध्याये स्वभावे च निर्माणे च समुज्झने । उत्साहे निश्चये चाथ स्कन्धः समुदये चये ॥ १२६ ॥ Nānārthārṇavasaṃkṣepa 2.2.126
- नानार्थार्णवसंक्षेप धर्मज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि । धर्मोऽस्त्री सुकृते साम्ये स्वभावे लग्नराशितः ॥ ६२८ ॥ Nānārthārṇavasaṃkṣepa 2.5.628
- नानार्थार्णवसंक्षेप निजआत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् । निभं तु स्यान्नपि व्याजे तत् तूत्तरपदं त्रिषु ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.689
- नानार्थार्णवसंक्षेप भावपदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः । केचित् त्वात्मनि योनौ च प्राप्तिसंस्कारजन्मसु ॥ ८९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.893
- नानार्थार्णवसंक्षेप रिष्टगतेऽथ वेद एवेदं हिंसने क्ली त्रि हिंसिते । रिष्टं स्वभावे क्ली पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1108
- नानार्थार्णवसंक्षेप रूपभूमौ तु रुह्वरी स्त्री स्यादथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुष्पु श्लोकशब्दयोः ॥ १११६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1116
- नानार्थार्णवसंक्षेप शीलशीलमस्त्री स्वभावेऽपि सद्वृत्तेऽप्यथ शीतवाक् । क्लीबं जले च शैत्ये च त्रिस्तु तद्वति ना पुनः ॥ १३७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1373
- नानार्थार्णवसंक्षेप सत्त्वसत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले । पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1440
- नानार्थार्णवसंक्षेप प्रकृतिप्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । कारणे शिश्नयोन्योश्च जन्त्वमात्यादिमातृषु ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 3.1.47
- नानार्थार्णवसंक्षेप संसिद्धिस्यात् संवित्तिस्तु संवादे ज्ञाने संसिद्धिवाक् पुनः । सम्यक्सिद्धौ स्वभावे च मेदोग्रायां च कश्चन ॥ १०० ॥ Nānārthārṇavasaṃkṣepa 3.1.100
- नानार्थार्णवसंक्षेप निसर्गस्वभावे सर्जने न्यासे निर्गमेऽप्यजयोऽपठीत् । निष्पावः शिम्बिसंज्ञे स्याद् धान्ये ब्रूते तु यादवः ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 3.2.111
- नानार्थार्णवसंक्षेप उचितएकदिक्के तत्र साधावुरोभव उरोहिते । उचितं तु स्वभाव क्ली निश्चिताभ्यस्तयोः पुनः ॥ २५४ ॥ Nānārthārṇavasaṃkṣepa 4.254
- नानार्थार्णवसंक्षेप सहजएकगोत्रे द्वयोस्त्रिस्तु गोत्रेण सहितेऽथ नप् । सहजं स्यात् स्वभावे क्लीपुंस्येनं रभसोऽभ्यधात् ॥ १९०० ॥ Nānārthārṇavasaṃkṣepa 4.1900
- परमानन्दीयनाममाला कायकारा बन्दिजनागारे कुष्ठं भेषजरोगयोः । कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥ Paramānandīyanāmamālā 5.7.105
- परमानन्दीयनाममाला भावभवो रुद्रे च सत्तायां संसारे प्राप्तिजन्मनोः । भावः सत्तास्वभावात्मकर्मचेष्टाशयेष्वथ ॥ ३३१ ॥ Paramānandīyanāmamālā 5.20.331
- परमानन्दीयनाममाला सर्गसर्गो वर्गे स्वभावे च निर्माणोत्साहयोरपि । सत्त्वं गुणान्तरे जीवे क्रियाकारस्वभावयोः ॥ ३६४ ॥ Paramānandīyanāmamālā 5.27.364
- शब्दरत्नावली सहजभूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा । सहजस्तु स्वभावे ना सोदरे पुनरन्यवत् ॥ Śabdaratnāvalī 7.8.27
- शब्दरत्नावली सृष्टिसृष्टन्तु निर्मिते युक्ते बहुले निश्चितेऽपि च । सृष्टिः स्वभावे निर्माणे निर्गुणे सगुणेऽपि च ॥ Śabdaratnāvalī 7.11.31
- शब्दरत्नावली प्रकृतिप्रणीतः संस्कृतोग्नौ स्याद् विहितक्षिप्तयोरपि । प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ॥ Śabdaratnāvalī 7.16.115
- शब्दरत्नावली आत्मन्आसनं स्याद्गजस्कन्धे पीठे यात्रानिवर्तने । आजीनं वाजिभूषायां ग्रहणे च नपुंसकम् । आत्मा स्वभावे मनसि प्रयत्ने च धृतावपि ॥ Śabdaratnāvalī 7.20.35
- शब्दरत्नावली रूपपुष्पां विकाशे कुसुमे कान्तारजसि न द्वयोः । रूपं सौन्दर्ये स्वभावे मानके निनदे पशौ ॥ Śabdaratnāvalī 7.21.10
- शब्दरत्नावली धर्मद्रुमः किम्पुरुषे कामे पारिजाते महीरुहे । धर्मोऽस्त्री सुकृता चारस्वभावोपनिषत्सु च ॥ Śabdaratnāvalī 7.25.12
- शब्दरत्नावली कायकायो मूर्त्तौ स्वभावे च संघे लक्ष्ये कदैवते ॥ Śabdaratnāvalī 7.26.10
- शब्दरत्नावली भावभवः प्राप्तौ हरे क्षेमसत्तासंसारजन्मसु । भावोऽभिप्रायचेष्टात्मसत्तास्वभावजन्मसु ॥ Śabdaratnāvalī 7.29.16
- शब्दरत्नावली सत्त्वशिवाभयामलक्याञ्च दुर्गाक्रोष्टीशमीषु च । सत्त्वं बले गुणे द्रव्ये पिशाचादिस्वभावयोः । व्यवसायधनप्राणात्मतास्वस्त्री तु जन्तुषु ॥ Śabdaratnāvalī 7.29.22
- शब्दरत्नावली प्रतिजात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥ प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥ हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥ बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ Śabdaratnāvalī 8.1.26
- शब्दरत्नाकर आत्मन्आत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः । धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥ Śabdaratnākara 4.1.1872
- शब्दरत्नाकर धर्मधर्मो न्याययमाचाराहिंसावैदिककर्मसु । साम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ॥ १९४२ ॥ Śabdaratnākara 4.1.1942
- शब्दरत्नाकर भावद्रव्यमात्ररसोत्पत्तिस्वभावात्मसु चेङ्गिते । गजभेदे वृषे भद्रः शुभे क्लीब उरौ त्रिषु ॥ १९७२ ॥ Śabdaratnākara 4.1.1972
- शब्दरत्नाकर शीलशम्बस्तु लोहवलये दम्भोलौ मुसलाग्रके । शीलं वृत्ते स्वभावे च शान्तिः प्रशममङ्गले ॥ २०१३ ॥ Śabdaratnākara 4.1.2013
- शब्दरत्नाकर सर्गस्यात् त्रिष्वाकर्णिते क्लीबे शास्त्रावधृतयोः श्रुतम् । सर्गस्तु निश्चयेऽध्याये स्वभावोत्साहसृष्टिषु ॥ २०१८ ॥ Śabdaratnākara 4.1.2018
- शब्दरत्नाकर सत्त्वद्रव्ये बलेऽन्तःकरणे व्यवसायात्मभावयोः । स्वभावे निर्मलज्ञाने सत्त्वमस्त्री तु जन्तुषु ॥ २०२१ ॥ Śabdaratnākara 4.1.2021
- शब्दरत्नाकर प्रकृतिस्वभावजन्त्वमात्यादिच्छन्दोभूतेषु मातरि । पक्षतिः पक्षमूले स्याद् द्वयोः प्रतिपदोरपि ॥ २१३० ॥ Śabdaratnākara 4.1.2130
- त्रिकाण्डशेष प्रकृतिप्रकृतिर्गुणसाम्ये स्यात्स्वभावामात्ययोरपि । प्रतीकारे प्रतिकृतिः प्रतिबिम्बेऽथ पद्धतिः ॥ १६४ ॥ Trikāṇḍaśeṣa 3.3.164
- त्रिकाण्डशेष रूपग्रन्थावृत्तौ पशौ शब्दे स्वभावे नाटकादिषु । रूपमाकारसौन्दर्यनामकेष्वपि दृश्यते ॥ २७८ ॥ Trikāṇḍaśeṣa 3.3.278
- त्रिकाण्डशेष कायउदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे । कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥ Trikāṇḍaśeṣa 3.3.308
- उत्पलिनी प्रकृतिपौरामात्यादिलिङ्गेषु स्वभावे प्रकृतिर्भगे । सत्त्वरजस्तमसां च समवस्थापि दृश्यते ॥ ५४ ॥ Utpalinī 54
- वैजयन्ती आत्मन्अंशुः सूत्रादिसूक्ष्मांशेऽप्यंकश्चिह्नेंऽतिकोरसोः । आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि ॥ ६ ॥ Vaijayantī 6.1.6
- वैजयन्ती धातुधातुर्वातादिशब्दादिगैरिकादित्वगादिषु । महाभूतेष्विंद्रियेषु शब्दयोनिस्वभावयोः ॥ २८ ॥ Vaijayantī 6.1.28
- वैजयन्ती भावभावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ॥ ४३ ॥ Vaijayantī 6.1.43
- वैजयन्ती सर्गराजसूयेन येनेष्टं राज्ञः शास्त्याज्ञया च यः । सर्गास्तु सर्जनाध्यायस्वभावोत्साहनिश्चयाः ॥ ६२ ॥ Vaijayantī 6.1.62
- वैजयन्ती रूपरूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ मितादिषु । सौन्दर्ये च स्वभावे च शरद्रेण्वार्तवे रजः ॥ २८ ॥ Vaijayantī 6.3.28
- वैजयन्ती शीलशस्त्राण्यस्त्रमयः शंसा शास्त्रं ग्रन्थनिदेशयोः । शार्ङ्गं चापे हरेश्चापे शीलं वृत्तस्वभावयोः ॥ ३३ ॥ Vaijayantī 6.3.33
- वैजयन्ती धर्मदृश्या स्यात् पृतना दृश्यं दर्शनीये विभूषणे । धर्मोऽस्त्री सुकृते साम्ये स्वभावे ना तु सोमपे ॥ ४२ ॥ Vaijayantī 6.5.42
- वैजयन्ती सत्त्वआत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः । प्राणे बलेऽन्तः करणे स्वामी पत्यौ षडानने ॥ ९४ ॥ Vaijayantī 6.5.94
- वैजयन्ती प्रकृतिनाले काले देशमाने नियतिः संयमे विधौ । प्रकृतिः पंचभूतेषु स्वभावे मूलकारणे ॥ १२ ॥ Vaijayantī 7.2.12
- वैजयन्ती संसिद्धिसिद्धौ स्वभावे संसिद्धिर्वांछानुज्ञा च सम्मतिः । संवित्ती ज्ञानसंवादौ ह्रादिन्यौ वज्रविद्युतौ ॥ २९ ॥ Vaijayantī 7.2.29
- वैजयन्ती निसर्गईशेश्वरौ प्रभौ रुद्रे पार्वत्यामीश्वरेश्वरी । स्वभावे स्यान्निसर्गश्च सृष्टिश्चोत्पादनेऽपि च ॥ ३५ ॥ Vaijayantī 8.5.35