All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
जान्ताः · जपादः
॥ इति छान्तवर्गः ॥
॥ जपादः ॥
आजिः समावनौ युद्धे प्रजा संता[19]नलोकयोः ।रुजा भङ्गे च रोगे च निजमात्मीयनित्ययोः ॥
7.1.1 · p. 31
अनुष्टुप्
व्रजा गोष्ठाध्वसंघाता न्युब्जोऽधोमुखकुब्जयोः ।भुजः पाणौ च बाहौ च गिरिजो व्याधिवृक्षयोः ॥
7.1.2 · p. 32
अनुष्टुप्