कुश
kuśaपुं · masc.In 22 kośas: 39 synonym verses, 12 as a nānārtha head word, 25 as a meaning of another word.
genderपुंmasc.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः ।गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपर्विका ॥ ११९२ ॥हरिताली रुहा पोटगलस्तु धमनो नडः ।
अनुष्टुप्
genderपुंmasc.
genderपुंक्लीm. n.
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
गुण्डा शिरिशिरा श्वेता स्यात्तदर्थस्तु वज्रकः ।पूतो ह्रस्वः कुशो ब्रह्मपवित्रो यज्ञभूषणः ॥ ३४३ ॥
अनुष्टुप्
genderपुंmasc.
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
शत्रुघ्नः सोऽपि सौमित्रिः सौमित्रेयावुभावपि ।क्रमादेषां तु तनया रामस्य तु कुशो लवः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
उडीशकुशकोटीशकुल्माषाणां वृषस्य (च) ।यज्ञनिर्यूहकलहनिःकुहाहसनस्ततः ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कौशल्या रामजननी कैकेयी केकयी तथा ।[9a]पार्थिवा पार्थिवी सीता शीता जनकनन्दिनी ।वैदेही मैथिला च स्यादस्याः पुत्रः कुशो लवः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कमलं क्षीरं भुवनोस्वीस्यं(?)घनरसं कुशम् ।यादो वासो(?)वर्णसिर्ना नोडुः पुंसि स्त्रियां त्विरा ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रं (wrong syllable)
genderक्लीneut.
नेपालाद्या इक्षुभेदा अथ बर्हिः कुशोऽस्त्रियौ ।कुथो दर्भो यज्ञियः स्यात्पवित्रं यज्ञभूषणम् ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
श्वेतदर्भः पूतिदर्भो ह्रस्वदर्भो लवः कुशः ।क्षुरच्छदः संस्तरः स्यात्कुतपो मुनिशस्त्रकम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
genderपुंmasc.
वागावक्षेपणी वल्गा द्वयोः कविगुणे कुशा ।पल्याणं स्यात्पल्ययणं प्रक्षरं प्रक्षरोऽस्त्रियाम् ॥दामाञ्चनं पादपा[117a]शो निगलः पुंनपुंसके ।खलीनलम्बरज्जुस्तु वल्गवक्षेपणी कुशा ॥ ५९ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
आदीनवो हाव इहाथ राशि-वराशि-वंश-स्पश-कोटिशांशाः ।कुशः पुरोडाश-विशौ शिशुः स्या-दुदो दिशिवत्प्रदिशमादिशेच्च ॥ २५ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 त्प्र (wrong syllable)
genderपुंmasc.
छायादयः शब्दाः स्त्रियां स्युर्भवेयुरित्यर्थः । यथा छाया वृक्षादेः प्रतिबिम्बः । सुरा मदिरा । निशा रात्रिः । वालुका सिकता । चमूः सेना । कन्था प्रसिद्धा । इरा जलभूमिः । एते शब्दाः स्त्रीलिङ्गे भवन्ति । यथा इयमापत् व्यसनम् । संपद्धनम् । विपत् दुःखम् । प्रतिपत्तिथिविशेषः । समित्काष्ठम् । विप्रुट् बिन्दुः ।कुशकूबरकुञ्जाङ्कुरकुठारकुन्दकुतुपा हि पुंस्युक्ताः ।कुलकूलकुङ्कुमानि तु नपुंसान्येव जानीयात् ॥ ३३ ॥
metre not recognised
genderपुंmasc.
दर्भे दभ्रः खरो बर्हिर्वीरः सूची कुथः कुशः ।सीरी वानीरजो गुन्द्रः पवित्रकुतुकावपि ॥ ३७१ ॥
अनुष्टुप्
genderपुंmasc.
वार्वारि कं पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् ।सरं वनं कुशं नीरं तोयं जीवनमब्विषम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
कीलालं यादसां वासः कुशं क्लीबे पयः पुनः ।दकोदके वनं क्षीरं भवनं कमलं समे ॥ ३४५ ॥
अनुष्टुप्
genderक्लीneut.
सेकिमं हरिपर्णं तु मूलकं हस्तिदन्तकम् ।कुशो बर्हिः पवित्रं च कुथदर्भावुभौ समौ ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
रामपुत्रौ तु कुशलवावेकोक्त्या च कुशीलवौ ।सौमित्रिर्लक्ष्मणः प्रोक्तो मारुतिर्वज्रकङ्कटः ॥ ३३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शिवावयवकोटीशवंशोड्डीशवृषाः कुशः ।पुरेडाशवरासी च निर्यूहर्षी घृणिध्वनी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
जीवनं सर्वभद्रं च पाथः काण्डं कुशं विषम् ।भूसारं सारसाधारं सारं नीरं जलं जडम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रोञ्चाभिधस्तथा ।शाकद्वीपः पुष्कराख्यः सप्त द्वीपा इमे स्मृताः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
पानीयं प्राणदं पाथो मेघपुष्पं च पुष्करम् ।शंवरं संवरं तोयं कीलालं सलिलं कुशम् ॥ १८५५ ॥
अनुष्टुप्
genderक्लीneut.
दर्भः कुथः कुशो बर्हिः पवित्रं नाम पञ्चमम् ।तेजनस्तु शरो गुन्द्रो मुञ्जो नाम चतुर्थकम् ॥ २१५१ ॥
अनुष्टुप्
genderपुंmasc.
जम्बुप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ।सप्त द्वीपा निगदिताः क्रमादेते मनीषिभिः ॥
अनुष्टुप्
genderपुंmasc.
तृणधान्यन्तु नीवार-झारकाद्यास्तु लोकतः ।वर्हिः पवितं दर्भः स्यात् कुशोऽस्त्री कुतपः कुथः ।कत्तृणं रौहिषं पौरं ध्यामं स्याद्देवजग्धकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तं (wrong syllable)
genderपुंक्लीm. n.
रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ।रावणो दशकण्ठः स्यात् पौलस्त्यः निकषात्मजः ॥
अनुष्टुप्
genderपुंmasc.
दर्भः कुशं कुसो मुञ्जे शरस्तालव्यदन्त्यभाक् ।दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
अनुष्टुप्
genderपुंmasc.
कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके ।मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥
अनुष्टुप्
genderपुंmasc.
केतुमालममूनि स्युर्भुवो वर्षाणि वै नव ।जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
मैथिली जानकी सीता वैदेही भूमिजा च सा ।रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् ।कुशो रामसुते द्वीपे कुशो यज्ञाङ्गबन्धनम् ॥
अनुष्टुप्
कंसोऽपुंसि कुशो बर्हौ बालो ह्रीवेरकेशयोः ।द्वापरः संशये छेदे पिप्पलो विटपोऽतरोः ॥ १३६ ॥
अनुष्टुप्
meaningsबर्ह
कुश as a meaning in nānārtha verses
- धरणिकोश कुथकुथं कुशे प्रवेण्यां च प्रस्थः स्यात्सानुमानयोः । तुथौ गन्धाश्वभेदौ च रथः स्यन्दनदेहयोः ॥ Dharaṇikośa 16.1.1
- धरणिकोश पवित्रसुन्दरी वृक्षभेदेऽपि मञ्जरी तिलकेऽपि च । पवित्रं स्यात्कुशे पूते कलत्रं श्रोणिभार्ययोः ॥ Dharaṇikośa 26.1.19
- कोषकल्पतरु न्युब्जकुजस्तु भौमे नरकासुरे च धन्वन्तरीन्द्वोर्निचुले च शङ्खे । अब्जोऽम्बुजेऽन्त्ये नरि तु द्रुभेदे न्युब्जं कुश[स्रुच्यपि कर्मरङ्गे] ॥ Koṣakalpataru 6.7.8
- कोषकल्पतरु कुथद्वयो रथः स्यन्दनकायपत्सु । स्याद्वैतसे चाथ कुथः कुशे ना त्रिषु प्रवेण्यामपि कम्बले च ॥ ९२ ॥ Koṣakalpataru 6.18.92
- कोषकल्पतरु कुतपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
- कोषकल्पतरु वर्हिस्ना वर्हिरग्नौ कुशगस्तु न स्त्री ज्वालारुचोरर्चिरनादिलिङ्गम् । पाथिः समुद्रे नरि लोचनेऽन्त्ये वपुस्तु भव्याकृतिदेहयोश्च ॥ १२ ॥ Koṣakalpataru 6.31.12
- नानार्थार्णवसंक्षेप पृष्ठविहङ्गपक्षमात्रे च पृष्ठं तु चरमं तनोः । चतुर्षु सामस्तोत्रेषु क्रतोः सामान्तरे कुशे ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 2.3.42
- नानार्थार्णवसंक्षेप बर्हिस्षष्ठे शरीरधातूनां बलयुक्ते(पु?तु) स त्रिषु । बर्हिस्तु क्ली कुशे यज्ञे जल व्योम्नि महत्यपि ॥ ८४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.848
- नानार्थार्णवसंक्षेप मुनिमुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् । अगस्त्यर्षौ च सुगते कुशे दमनके तथा ॥ १००९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1009
- नानार्थार्णवसंक्षेप प्रस्तरवैजयन्तीसमुद्दिष्टो धन्विना लस्तकग्रहे । प्रस्तरो मणिपाषाणकुशेषु कथितो बुधैः ॥ १२९ ॥ Nānārthārṇavasaṃkṣepa 3.2.129
- नानार्थार्णवसंक्षेप पवित्रपावके पवने सोमे घृणौ यवविवस्वतोः । त्रि तु पूते क्ली तु ताम्रे गोमये सलिले कुशे ॥ १०५२ ॥ Nānārthārṇavasaṃkṣepa 4.1052
- नानार्थार्णवसंक्षेप याज्ञिकस्याद्यष्ट्टयाजयित्रोस्त्रिरथ स्यात् पुंसि याज्ञिकः । कुशे च याजके चापि रभसः प्रोक्तवानमुम् ॥ १४६८ ॥ Nānārthārṇavasaṃkṣepa 4.1468
- शिवकोष याज्ञिकयाज्ञिकः कुशपालाशखदिरे यावको निशि । अलक्तके सिल्हके च यूथिकाऽम्लानबालयोः ॥ ४४ ॥ Śivakoṣa 1.3.44
- शब्दरत्नावली कुतपकुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले । दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥ कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे । जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥ प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि । रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥ विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥ Śabdaratnāvalī 7.21.18
- शब्दरत्नावली पवित्रपवित्रं कुशताम्राप्सु क्लीबं मेद्ये तु वाच्यवत् । प्रदरो भङ्गशरयो रोगभेदविदारयोः ॥ Śabdaratnāvalī 7.27.83
- शब्दरत्नावली लक्ष्मीपुत्रसञ्चानपक्षिणि श्वेतघोटके च धनुर्द्धरे । लक्ष्मीपुत्रः स्मरे चाश्वे स्यात्कुशे चैव लवेऽपि च ॥ Śabdaratnāvalī 7.27.142
- शब्दरत्नाकर कूर्चत्रिष्वन्तःकुक्षि कोष्ठोऽस्त्री कुसूलेऽन्तर्गृहे पदे । कूर्चमस्त्री कुशे पीठे भ्रूमध्यश्मश्रुणोरपि ॥ १८९९ ॥ Śabdaratnākara 4.1.1899
- शब्दरत्नाकर पवित्रचतुष्पथे क्रमान्निम्ने प्रवरः शालिमुख्ययोः । पवित्रः पावके विष्णौ पवित्रं कलशे कुशे ॥ २१३४ ॥ Śabdaratnākara 4.1.2134
- त्रिकाण्डशेष कुतपकल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने । धान्ये कुशेऽष्टमांशेऽह्नः कुतपश्छागकम्बले ॥ २७५ ॥ Trikāṇḍaśeṣa 3.3.275
- त्रिकाण्डशेष पवित्रस्थाल्यो मन्थेऽपि पिठरं पवित्रं कुशमेध्ययोः । देहे पाटलिपुत्रे च पुरं स्यागुग्गुलौ पुरः ॥ ३६४ ॥ Trikāṇḍaśeṣa 3.3.364
- त्रिकाण्डशेष बर्हिस्रसे क्रूरे च विकृतौ बीभत्सस्त्रिषु नाऽर्ज्जुने । व्यासो मुनौ च विस्तारे बर्हिर्ना कुशशुष्मणोः ॥ ४५२ ॥ Trikāṇḍaśeṣa 3.3.452
- वैजयन्ती कूर्चपीठे श्मश्रुणि कूर्चोऽस्त्री भ्रूमध्ये कत्थने कुशे । कृत्या क्रियादेवतयोः कार्ये क्ली कुपिते त्रिषु ॥ २० ॥ Vaijayantī 6.5.20
- वैजयन्ती बर्हिस्फली ताम्रादिफलके बर्हिर्नाग्नौ नपुं कुश । ब्रह्मा रुद्रेंद्रभृग्वादिविप्रर्त्विग्यज्ञधातृषु ॥ ५३ ॥ Vaijayantī 6.5.53
- वैजयन्ती प्रस्तरप्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु । विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥ Vaijayantī 7.1.51
- वैजयन्ती पवित्रमन्त्रे दघ्नि ब्रह्मसूत्रे हेम्न्यर्थे कलशे कुशे । पुलस्त्यवंश्ये पुरुषे पौलस्त्यः क्ली तु संयुगे ॥ ५९ ॥ Vaijayantī 7.5.59