गङ्गा
gaṅgāस्त्री · fem.In 21 kośas: 17 synonym verses, 22 as a meaning of another word.
गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका ।त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः ॥ १०८१ ॥सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा ।ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ॥ १०८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 है (wrong syllable)
genderस्त्रीfem.
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
भागीरथी सुरसरिद्विष्णुपदी जाह्नवी तथा गङ्गा ।मन्दाकिनी त्रिपथगा सरिद्वरा त्रिदशदीर्घिका प्रोक्ता ॥ ६७३ ॥
गीतिः
genderस्त्रीfem.
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।कृष्णवेणी कृष्णनदी यमुना शमनस्वसा ॥ १७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
genderस्त्रीfem.
समुद्रगामिनी धारा धरा वरुणवल्लभा ।द्योधुनी गङ्गिका गङ्गा विष्णुपादभवाभवा ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
सिद्धनद्याश्च पर्याया धर्मद्रव्यपि गान्दिनी ।गङ्गा त्रिपथगाऽपि स्यात्सुरालम्बगमा पुनः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
शणीरः पुंसि शोणस्य मध्यस्थं पुलिनं भवेत् ।गङ्गा विष्णुपदी तथा सुरनदी सिद्धापगा स्वर्णदीस्वर्वापी सुरदीर्घिका मकरगा नद्युत्तमा जाह्नवी ।त्रिस्रोता हरशेखरा त्रिपथगा भागीरथी भीष्मसूःप्रोक्ता हैमवती कुमारजननी धर्मद्रवा स्यात्सिता ॥ ५६ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
भागीरथी त्रिपथगा जाह्नवी हिमवत्सुता ।मन्दाकिनी द्युपर्यायधुनी गङ्गानदीश्वरः ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्त्माऽध्वा सरणिः पन्था मार्गः प्रचरसञ्चरौ ।त्रिमार्गनामगा गङ्गा घोषो गोमण्डलं व्रजः ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
गङ्गा मन्दाकिनी भागीरथी त्रिपथगा च सा ।त्रिस्रोता जाह्नवी विष्णुपदी च हरशेखरा ॥ ३६० ॥
अनुष्टुप्
genderस्त्रीfem.
आपगा वाहिनी सिन्धुः स्रवन्ती वक्रगामिनी ।गङ्गा भागीरथी देवनदी त्रिपथगामिनी ॥ २८४ ॥
अनुष्टुप्
genderस्त्रीfem.
सरस्वती पद्मवती धुनी सागरगामिनी ।गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वर्नदी जाह्नवी गङ्गा त्रिस्रोता सुरदीर्घिका ।मन्दाकिनी त्रिपथगा भीष्मसूर्वियदापगा ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
गङ्गा भागीरथी ख्याता त्रिपथगा त्रिमार्गगा ।त्रिस्रोताः खापगा स्वर्ग्यापगा स्वरापगा तथा ॥ १८८५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable); pāda 4, syllable 3 स्व (wrong syllable)
genderस्त्रीfem.
निर्भरिण्यापगा चेति नदोपर्याय ईरितः ।अथ गङ्गा विष्णुपदी जाह्णवी सुरनिम्नगा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderस्त्रीfem.
स्रोतस्विनी द्वीपवती सैव शैवलिनीति च ।मन्दाकिनी विष्णुपदी गङ्गा गीर्वाणनिम्नगा ॥ ३४४ ॥
अनुष्टुप्
genderस्त्रीfem.
तलोदा चाम्पिला सिन्धुर्ऋषिकुल्या वहा च सा ।अवगा गान्दिनी गङ्गा हैमवत्युग्रशेखरा ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
गङ्गा as a meaning in nānārtha verses
- धरणिकोश हैमवतीभोगवती च नागानां नदी च नगरी तथा । हैमवती स्मृता गङ्गा स्वर्णक्षीरी तथाभया ॥ Dharaṇikośa 15.2.62
- धरणिकोश सुधाविधा विधौ प्रकारे च गजान्नवेतनर्धिषु । सुधा लेपोऽमृतं मूर्वा गङ्गेष्टिका स्नुही सुधा ॥ Dharaṇikośa 18.2.2
- नानार्थार्णवसंक्षेप सुधागङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरेऽमृते । स्नुह्यां स्थूणा तु गेहस्य स्तम्भे वातादिषु त्रिषु ॥ १२३ ॥ Nānārthārṇavasaṃkṣepa 2.1.123
- नानार्थार्णवसंक्षेप पुण्याव्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि । गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.785
- नानार्थार्णवसंक्षेप जाह्नवीस्त्री गङ्गायामपत्ये तु द्वे जह्नोर्जाह्नवः स्मृतः । धनञ्जयेन तु क्लीबं जाह्नवं जन्तुनि स्मृतम् ॥ ७८९ ॥ Nānārthārṇavasaṃkṣepa 4.789
- नानार्थार्णवसंक्षेप त्रिमार्गापक्षत्रयान्तकर्तव्यश्राद्धे प्रेतस्य च त्रि तु । बहुव्रीही त्रिमार्गा तु स्त्री गङ्गायां त्रिमार्ग्यसौ ॥ ८६७ ॥ Nānārthārṇavasaṃkṣepa 4.867
- नानार्थार्णवसंक्षेप त्रिस्रोतस्दशास्यसम्बन्धिनि च रक्षोभेदेऽथ भेद्यवत् । त्रिमूर्धे स्त्री तु गङ्गायां त्रिस्रोता रभसः पुनः ॥ ८७५ ॥ Nānārthārṇavasaṃkṣepa 4.875
- नानार्थार्णवसंक्षेप सरस्वतीसरस्वती नदीभेदे नदीमात्रे च वाचि च । गङ्गायां गवि मेदिन्यां स्त्रीरत्ने च वचस्यपि ॥ १९३४ ॥ Nānārthārṇavasaṃkṣepa 4.1934
- नानार्थार्णवसंक्षेप देवसिन्धुरोमावर्ते समासादि पूर्ववत् स्यादथ स्त्रियाम् । स्याद्देवसिन्धुर्गङ्गायां समासाद्यत्र पूर्ववत् ॥ २८८ ॥ Nānārthārṇavasaṃkṣepa 6.288
- नानार्थार्णवसंक्षेप विष्णुपदीपुण्यस्थानविशेषे चाप्याकाशे च स्त्रियां पुनः । गङ्गायां स्याद्विष्णुपदी रविसङ्क्रमणेषु तु ॥ ५६४ ॥ Nānārthārṇavasaṃkṣepa 6.564
- नानार्थार्णवसंक्षेप हैमवतीपार्वत्यामपि गङ्गायां हरीतक्यां वचान्तरे । शुक्ले स्यादोषधीभेदे स्वर्णक्षीरीति विश्रुते ॥ ६९९ ॥ Nānārthārṇavasaṃkṣepa 6.699
- नानार्थार्णवसंक्षेप हरशेखरासम्भवत्सु समासेषु लिङ्गमर्थश्च पूर्ववत् । बाधित्वा परवल्लिङ्गं गङ्गायां हरशेखरा ॥ ११४ ॥ Nānārthārṇavasaṃkṣepa 7.114
- परमानन्दीयनाममाला सुधासुधा गङ्गेष्टिका पृथ्वी भोजने तु दिवौकसाम् । सिंहो हर्यक्षराश्योश्च [32] श्रेष्ठार्थे चोत्तरस्थितः ॥ ३६८ ॥ Paramānandīyanāmamālā 5.27.368
- शिवकोष सुधावधूः शटी माल्यवतीगोपकन्याप्रियङ्गुषु । सुधा गङ्गेष्टिकामूर्वाचूर्णानिस्तृंशपत्रके ॥ २३६ ॥ Śivakoṣa 15.1.236
- शब्दरत्नावली सीतास्थितिर्मर्यादावसानसीमास्थानेषु च स्त्रियाम् । सीता लाङ्गलपद्धत्यां जानकीगङ्गयोरपि ॥ Śabdaratnāvalī 7.16.65
- शब्दरत्नावली भोगवतीपारावती नदीगोपगीत्योश्च लवलीफले । पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥ पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे । भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥ स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् । रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥ लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् । व्यतिपातो योगभेदे महोत्पातापमानयोः ॥ Śabdaratnāvalī 7.16.171
- शब्दरत्नावली सुधासुधा गङ्गेष्टकामूर्वीस्नुहीलेपामृतेषु च । Śabdaratnāvalī 7.19.21
- शब्दरत्नावली नन्दिनीतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली त्रिस्रोतस्सम्यक्सिद्धरसे पीलुपर्णीकर्पूरयोरपि । चन्द्रहासः खड्गमात्रे दशकण्ठकृपाणके ॥ भवेत्तामरसं ताम्रे पङ्कजे काञ्चनेऽपि च । त्रिस्रोताः स्यात्तरङ्गिन्यां गङ्गायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.32.45
- तन्त्राभिधान गगो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः । शार्ङ्गी पञ्चान्तको गाथा गन्धर्वः सर्वगः स्मृतिः ॥ ६३ ॥ Tantrābhidhāna 2.20.63
- वैजयन्ती सुधागंगेष्टिमूर्वयोः स्नुह्यां लेपभेदेऽमृते सुधा । रश्मिमेखलयोः स्यूना सीता सस्ये हलाध्वनि ॥ ४५ ॥ Vaijayantī 6.2.45
- वैजयन्ती हैमवतीगङ्गा पथ्या हैमवती गौरी शुक्लवचापि च । Vaijayantī 8.2.11