All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
Part 1
[५०] मुनिराजसुन्दरविजयविरचितः
सुन्दरैकाक्षरकोषः
॥ शार्दूलविक्रीडितम् ॥
देहेनाऽधवलं तथाऽऽत्मधवलं,साहिं तथा निर्विषं,संपूज्यं करिणा तथाऽमदगजं,पार्श्वं तथाऽपार्श्वगम् ।कल्यद्र्यन्तिकगं तथाऽखिलकलिंदूरेकरं देहिनां,नौमि श्रीकलिकुण्डतीर्थसुपतिंपार्श्वप्रभुं भावतः ॥ १ ॥
1 · p. 141
शार्दूलविक्रीडितम्
॥ उपजातिः ॥
प्रणम्य नम्यं जगदेकरम्यंराजेन्द्रसूरिं सुगुरुं च भक्त्या ।श्रीसुन्दरैकाक्षरनामकोषंपोषप्रदं तोषकरं करोति ॥ २ ॥
2 · p. 141
उपजातिः
॥ वसन्ततिलका ॥
शब्दाम्बुधिः सुगहनो वररत्नपूर्णःपारं न तस्य प्रगताः सुधियोऽद्ययावत् ।रत्नाल्यदीयत ततो विबुधैर्जगद्भ्योरे! शक्तिमेव किल यच्छति लोलबालः ॥ ३ ॥
3 · p. 141
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 2, syllable 5 स्य (wrong syllable)
॥ इन्द्रवंशा ॥
श्रीहेमचन्द्रादिसदृग्विपश्चिता-मालोक्यते व्याकृति-काव्यकौशलम् ।क्वास्मादृशां तादृशमेव कौशलम्?प्रीत्या तथाप्यस्य सुखं प्रवृत्यते ॥ ४ ॥
4 · p. 141
इन्द्रवंशा
॥ अनुष्टुप् ॥
पूर्वैकाक्षरकोषेभ्यो-ऽन्यकोषेभ्यश्च सुश्रमात् ।करोत्येकाक्षरं कोषंबालेभ्यो बालसुन्दरः ॥ ५ ॥
5 · p. 141
अनुष्टुप्
अक्षरवाचकः शब्दःप्रथमालङ्कृतः कृतः ।अर्थवाचकशब्दश्चसप्तम्यलङ्कृतस्तथा ॥ ६ ॥
6 · p. 141
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 म्य (wrong syllable)
लिङ्गादिवाचकश्चापिप्रथमया ह्यलङ्कृतः ।लिङ्गस्य प्रतिषेधोऽत्रा-ऽपरलिङ्गविधायकः ॥ ७ ॥
7 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
क्रियावाचकशब्दश्चपुंलिङ्ग एव दर्शितः ।अकारादिक्रमेणात्रशब्दानां समुपस्थितिः ॥ ८ ॥
8 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)