कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

आकारादिः

॥ अथ आकारादिः ॥

आ चाथ ब्रह्मणि प्रोक्तोमातामहे च मन्मथे ।आ भावे परितापे चबन्धुवर्गे घटे पटे ॥ १ ॥
2.1 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
आ स्मृतः सागरे सूर्येचापे लक्ष्म्यां तथोदितः ।आकारः प्रलये वात-मण्डल्यां च समीरितः ॥ २ ॥
2.2 · p. 142
अनुष्टुप्
नारायणे तथाऽऽकारोगुरावनन्त-शेषयोः ।आकारो विष्णुशय्यायांचारे च लघुवस्तुनि ॥ ३ ॥
2.3 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
आकारः सुखतत्यां स्यात्सलिल-सीम-सर्वगे ।आकारश्च विधावुक्तआक्षेपेऽपि समाहृतः ॥ ४ ॥
2.4 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
आः स्वयम्भुवि चेभे स्यात्खेद-शङ्करयोः सुते ।वाजिनि वासवे प्राज्ञेनिवासे सम आस्तथा ॥ ५ ॥
2.5 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
चणके पारिजाते ह्याःकामदेवे समाहृतः ।आ भवेदव्ययः कोपेदुःखा-ऽनुकम्पयोः स्मृतौ ॥ ६ ॥
2.6 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऽनु (wrong syllable)
तिरस्कारे क्रियायोगआ दूराह्वान-खेदयोः ।आ अभिव्यक्त्य-भिव्याप्त्योःसन्ताप-वाक्य-सीमसु ॥ ७ ॥
2.7 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
आ स्याद्भावे तथाऽत्यर्थईषदर्थे समुच्चये ।आ चित्रे निर्णये चोक्तोमण्डन्यामा वृथास्मृतौ ॥ ८ ॥
2.8 · p. 142
अनुष्टुप्
विस्मृते विस्मये चाथसंतोष आ निगद्यते ।माङ्गल्ये चाथ पूजाया-मव्यय आ समाहृतः ॥ ९ ॥
2.9 · p. 142
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
अव्यय आङ् भवेच्चाथसीमे-षदर्थयोस्तथा ।अभिव्याप्तौ क्रियायोगे-ऽङ्गीकार आङ् समर्थितः ॥ १० ॥
2.10 · p. 142
metre not recognised
आङ् समन्ताद्वृत्तौ प्रत्या-वृत्तौ च ग्रहणे मतः ।आत् स्यात्तान्तोऽपिचेत्यर्थे-ऽनन्तरार्थे तथाऽव्ययः ॥ ११ ॥
2.11 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वृ (wrong syllable)
मान्त आमव्ययः प्रोक्तोह्यवधृतौ स्मृतौ तथा ।आं ज्ञान एवमर्थेऽथा-ऽङ्गीकार-प्रतिवाचयोः ॥ १२ ॥
2.12 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धृ (wrong syllable)
आस्तथाऽव्यय आक्षेपेपीडायां च स्मृतावपि ।सन्तापेऽपाकृतौ स्यादाःक्रोधे साटोपतर्जने ॥ १३ ॥
2.13 · p. 143
अनुष्टुप्