All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
हकारादिः
॥ अथ हकारादिः ॥
अथ ह ईश्वरे हंसेहीरे हारे हरौ हरे ।हरिण्यां हरणे हर्षेहस्तथा हास्य-हस्तिनोः ॥ १ ॥
49.1 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
हो रोमाञ्चे रणे शस्त्रेक्वणिते रक्त-रक्षयोः ।वायुपुत्रे वराहे होवीर-वारण-वाजिषु ॥ २ ॥
49.2 · p. 191
अनुष्टुप्
गगने गमने गर्भेहो गर्वे मङ्गले भटे ।वरुणे दारुणि क्रोधेकामे हः सिंह-शून्ययोः ॥ ३ ॥
49.3 · p. 191
अनुष्टुप्
हः स्यान्नीरे नदीतीरेनकुल-नकुलीशयोः ।नाक-निवासयोः शुष्क-शूलयोर्हो भयङ्करे ॥ ४ ॥
49.4 · p. 191
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 कु (wrong syllable); pāda 3, syllable 3 नि (wrong syllable)
हः पापहरणे बोधेचौरे चन्द्रे चतुर्मुखे ।सरोषवारणे हः स्याद्धारणे गर्भभाषणे ॥ ५ ॥
49.5 · p. 191
अनुष्टुप्
हस्ते हयानने चाथजन्मनि हः क्षतौ तथा ।हः स्याद्वीणाध्वनौ कष्टउन्मत्ते विद्भिरीरितः ॥ ६ ॥
49.6 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
हश्च प्रोक्तो हिरण्याक्षेमणिरोचिषि चोच्यते ।त्रिलिङ्गो हः सुखे चैवविशेषणे निगद्यते ॥ ७ ॥
49.7 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
हं हर्ष-सुख-हिंसा-ऽस्त्र-क्वणित-मणिभानुषु ।हरणे भरणे पूर्णेहं चौर्य-भर-भासुरे ॥ ८ ॥
49.8 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 णि (wrong syllable)
हं शूलि- ब्रह्मणोः ख्यातोवीणाध्वनौ तथा मुखे ।अव्ययं ह नियोगे स्यान्-निन्दायां पादपूरणे ॥ ९ ॥
49.9 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्व (wrong syllable)
क्षेपणे च प्रसिद्धौ हसम्बोधने विनिग्रहे ।हं मान्तश्चाव्ययः प्रश्नेह्यसूयायामपाकृतौ ॥ १० ॥
49.10 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
सम्बोधने रुषोक्तौ ह-मनुनये च वारणे ।विनये संस्मृतावुक्तोहेतौ खेदे रुचो च हम् ॥ ११ ॥
49.11 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
परब्रह्मणि सत्कारेहमङ्गीकृति-भाषणे ।हा वीणायां गतौ त्यागेगन्धर्वे शोक-गर्तयोः ॥ १२ ॥
49.12 · p. 191
अनुष्टुप्
अव्ययं हा विषादे स्यात्कुत्सा-विस्मय-पीडने ।उन्मत्त-शोकयोर्हास्येगर्जन-दुःखयोश्च हा ॥ १३ ॥
49.13 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
हिरीश्वरे तथा सर्पेहिश्छेद आत्मजे मतः ।अव्ययं हि विशेषे चसम्भ्रमे पादपूरणे ॥ १४ ॥
49.14 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
हेतौ हेतूपदेशे हिशोके प्रश्नेऽवधारणे ।हि दानार्थे स्फुटेऽप्यर्थेचासूयायां समीरितः ॥ १५ ॥
49.15 · p. 191
अनुष्टुप्
हि रोषोक्तौ प्रसिद्धौ चविपश्चिद्भिः समुच्यते ।हीः स्यान्नरे मृगे चाथहीर्हर्षसहिते तथा ॥ १६ ॥
49.16 · p. 191
अनुष्टुप्
अव्ययं ही विषादे स्याद्दुःखे शोक-वितर्कयोः ।ही हेतौ विस्मये पूर्तौही विचित्रे समीक्ष्यते ॥ १७ ॥
49.17 · p. 191
अनुष्टुप्
ही स्यात् स्वल्पे परप्रश्न-प्रमोद-दुःखहेतुषु ।हुर्नघुषनृपे, मान्तो-ऽव्ययो हुं स्मरणे भये ॥ १८ ॥
49.18 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable); pāda 3, syllable 3 घु (wrong syllable)
कोप-होम-वितर्केषुहुं प्रश्ने स्वप्न-दानयोः ।भर्त्सने हुमसूयाया-मनुज्ञायामपाकृतौ ॥ १९ ॥
49.19 · p. 192
अनुष्टुप्
हुं स्यादामन्त्रणे स्वापेहुं न्यासेऽनुनयेऽव्ययः ।हूर्ब्राह्मणे, तथा हू चा-ऽव्ययं सम्बुद्धि-शोकयोः ॥ २० ॥
49.20 · p. 192
अनुष्टुप्
अवज्ञा-मानयोर्हू स्यान्-मान्तोऽव्ययश्च हूं स्मृतौ ।सम्भाव्ये सम्मतौ हूं स्यान्-निन्दा-वितर्कयोस्तथा ॥ २१ ॥
49.21 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व्य (wrong syllable); pāda 4, syllable 3 वि (wrong syllable)
हूमभ्युपगमे प्रश्नेप्राकाश्येऽनुनये भये ।हूं रुषोक्ताववज्ञायांहृत् त्रिलिङ्गश्च सुन्दरे ॥ २२ ॥
49.22 · p. 192
अनुष्टुप्
हत् क्लीबो हृदये चित्तेहेः प्रसादकृति स्मृतः ।हेऽव्ययं स्यादसूयादौसम्बुद्धौ पादपूरणे ॥ २३ ॥
49.23 · p. 192
अनुष्टुप्
हे कुत्सा-ऽऽह्वानयोर्हेतौहैर्हास्ये संप्रकीर्तितः ।अव्ययं है तथाऽऽह्वानेस्यात् सम्बोधन-कष्टयोः ॥ २४ ॥
49.24 · p. 192
अनुष्टुप्
होकारः श्रेष्ठबुद्धौ तुदर्शितः शब्दकोविदैः ।होऽव्ययं विस्मये चाथा-ऽऽह्वाने सम्बोधने तथा ॥ २५ ॥
49.25 · p. 192
अनुष्टुप्
हौः स्यात् षडानने व्याधौब्रह्मणि त्याग-पादयोः ।हौ भवेद्वचना-ऽऽह्वान-सम्बोधनेषु चाऽव्ययम् ॥ २६ ॥
49.26 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
ह्यः पुमांस्तु हये, क्लीबोऽथ ह्यं हस्तिमुखे गृहे ।ह्यो गताह्न्यव्ययः सान्तोह्या हयायामुदीरितः ॥ २७ ॥
49.27 · p. 192
अनुष्टुप्
ह्रः पुमान् हरिणे हारेहरि-हर-हयेष्वथ ।ह्रो हाहा-हुहु-हर्षेषुह्रो हंस-हास-हस्तिषु ॥ २८ ॥
49.28 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 रि (wrong syllable); pāda 4, syllable 3 स (wrong syllable)
ह्रो नाहुष-दिनो-द्धर्षेहं गरे चर-चौर्ययोः ।ह्रा हंसी-हस्तिनी-गौरी-शर्मिष्ठा-हरिणीष्वथ ॥ २९ ॥
49.29 · p. 192
अनुष्टुप्
सहर्षा-देवयान्योर्ह्रात्रिलिङ्गो ह्रीश्च लज्जिते ।ह्रीः स्त्रीलिङ्गश्च पार्वत्यांलज्जायां कथ्यते बुधैः ॥ ३० ॥
49.30 · p. 192
अनुष्टुप्
ह्वः प्रह्वे शतजिह्वे, ह्वंक्ष्वेडायां मरुतो गतौ ।ह्वा स्त्रीलिङ्गश्च जिह्वायांतरुणी- सरितोस्तथा ॥ ३१ ॥
49.31 · p. 192
अनुष्टुप्