कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

घकारादिः

॥ अथ घकारादिः ॥

अथ घो देव-सूर्ये स्याद्मेघे मेघा-ऽश्वमेधयोः ।मारणे मरणे मन्त्रेभोगे घो राज-रुद्रयोः ॥ १ ॥
20.1 · p. 155
अनुष्टुप्
घो धर्म-घोष-घण्टासुघटने घट्टने घटे ।घो घर्घरे तथा घोरेघो घण्टीशे घनस्वरे ॥ २ ॥
20.2 · p. 155
अनुष्टुप्
घो गज-वाद्य-वैशाख-किङ्किणी-किङ्किणीरवे ।घश्च समुद्र-संवेगा-ऽग्नि-शिवोत्तम-शक्तिषु ॥ ३ ॥
20.3 · p. 155
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
घः पृथ्वी-पुत्र-वार्ता-ऽन्त-र्भाव-दुस्तर-खड्गिषु ।निश्चये परमार्थे घोविशेषे सुरभौ श्रवे ॥ ४ ॥
20.4 · p. 155
अनुष्टुप्
घः संवेशेऽमृते चाथघं नटांह्रौ मृगे तथा ।घं पुण्ये नूपुरे पापेघं पाषण्ड-प्रवाहयोः ॥ ५ ॥
20.5 · p. 155
अनुष्टुप्
घं ध्वनि-वाद्ययोरुक्तोघं स्यादमृत-घोरयोः ।घ सत्ये तावदर्थे स्याद्विशेषे निश्चयेऽव्ययः ॥ ६ ॥
20.6 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
घा घोर-घात-घण्टासुक्षुद्रे घनध्वनौ ध्वनौ ।घा वार्तायां च किङ्किण्यांपृथिवी-दुर्गयोश्च घा ॥ ७ ॥
20.7 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ (wrong syllable)
लक्ष्म्यां शच्यां तथा काञ्च्यांताडने घा प्रकीर्तितः ।घिरुच्यते बुधैर्दीप्तौघृते च घृतकर्मके ॥ ८ ॥
20.8 · p. 156
अनुष्टुप्
घीः कुमारेऽमराचार्येघुरथ कलि-मूढयोः ।घुर्दानवे च घोणायांसर्पेऽकरुण-घोषयोः ॥ ९ ॥
20.9 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र (wrong syllable)
अथ घुमव्ययः प्रोक्तोविद्भिरव्यक्तनिःस्वने ।घूर्घोणायां घने पृथ्व्यांसङ्कर्षणे तथा ध्वनौ ॥ १० ॥
20.10 · p. 156
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 घु (wrong syllable); pāda 4, syllable 3 र्ष (wrong syllable)
घूरमले गुदे प्रोक्तःसुराधीशे समीरितः ।घेः कीले कुर्कुरे शङ्खेघैः सूर्ये सरमासुते ॥ ११ ॥
20.11 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
घोकारोऽथ ध्वनौ ख्यातौघौः स्वर्ग-पापयोस्तथा ।घ्नो घने नाशके, घ्नं तुपतति निबिडे जले ॥ १२ ॥
20.12 · p. 156
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्ग (wrong syllable); pāda 4, syllable 2 त (wrong syllable)
घ्नन् नुदति त्रिलिङ्गः स्याद्घ्ना दिवि पण्डितैर्मतः ।घ्यः स्याद्घूके ध्वनौ, घ्यं स्यात्तोये, घ्योर्वी-कलत्रयोः ॥ १३ ॥
20.13 · p. 156
अनुष्टुप्metre not read in every line
घ्रो घोष-चन्द्र-चूतेषुघ्रः कामाऽ-ज्ञ-भगेषु च ।घ्रं निजे वदनेऽगारेघ्रा घ्रातृ-घ्राणयोर्भवेत् ॥ १४ ॥
20.14 · p. 156
अनुष्टुप्
घ्रा घृणा-सरमापुत्र्यो-र्घ्लोऽश्वे घ्लं सूतपातने ।घ्लं वृक्णे कथितो, घ्ला तुजघनायां समर्थितः ॥ १५ ॥
20.15 · p. 156
अनुष्टुप्
घ्वः पुमांस्तु ध्वनावुक्तोघ्वं क्लीबश्चाथ घर्षणे ।घुष्टे घासे तथा घ्वं स्यात्स्त्रीलिङ्गो ध्वाऽरणौ भवेत् ॥ १६ ॥
20.16 · p. 156
अनुष्टुप्