All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
णकारादिः
॥ अथ णकारादिः ॥
णोऽथ मोक्षे मुखे मारेमोचने दुष्ट-यज्ञयोः ।शङ्करे सूकरे चौर-जारयोर्णो जपे रतौ ॥ १ ॥
31.1 · p. 165
अनुष्टुप्
णो भूषणे कणे कोणेक्रोड-कण्टक-कङ्कटे ।निर्गुणे निर्णये नक्रेणो निष्फले ध्वनौ तथा ॥ २ ॥
31.2 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्फ (wrong syllable)
णो ज्ञान-योग्ययोर्बन्धेगन्धगजे जलस्थितौ ।प्रस्तुते प्रकटे हर्षेणो भैरवे जनार्दने ॥ ३ ॥
31.3 · p. 166
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
णः परिवर्तने शङ्खेणः स्यान्निस्तुषवस्तुनि ।णं व्योम्न्यब्जदले ज्ञानेदर्शने चरणे रणे ॥ ४ ॥
31.4 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
णा धेनु-नाभि-नासासुशय्या-कथा-कृपास्वपि ।णा ध्वजिन्यां रजन्यां स्यात्पशुपुच्छेऽपि णा तथा ॥ ५ ॥
31.5 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
णिश्चये चरणे चारेसमे स्वरेऽजरे वृके ।णीः क्षीरे स्यात्तथा स्वर्गेरणे च धन-धान्ययोः ॥ ६ ॥
31.6 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
णुः करेणौ स्तुतौ स्वार्थेपृथ्व्यां संप्रत्ययेऽपि च ।बृहन्माने च णुः प्रोक्तोणूः कालिन्द्यां च वार्धके ॥ ७ ॥
31.7 · p. 166
अनुष्टुप्
णेर्विडङ्गे च मार्जारेणैः शृगाल्यां समुच्यते ।हरीतक्यां च, णोकारःसर्षपे, णौश्च शाठ्यके ॥ ८ ॥
31.8 · p. 166
अनुष्टुप्
ण्यस्त्वग्रण्ये शरण्येऽथण्यं च न्याय्ये नपुंसकः ।ण्या स्त्री नद्यां गिरायां चण्रो बीभत्सौ पुमान् मतः ॥ ९ ॥
31.9 · p. 166
अनुष्टुप्
ण्रो नष्ट-भीरु-कर्णेषुण्रोऽम्बरगे तथोद्धवे ।ण्रं वाक्य-पात्रयोः क्लीबस्-तथा नारदभाषिते ॥ १० ॥
31.10 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
ण्रा गङ्गायां च गोदायांनर्मदायां बुधैर्मतः ।द्रौपद्यामम्बुजायां ण्राधेनावपि समुच्यते ॥ ११ ॥
31.11 · p. 166
अनुष्टुप्
ण्वो नाथे जमदग्नौ चण्वमणु-रूपयोस्तथा ।ण्वा भवेदुज्जयिन्यां स्त्रीण्वा वाणी-प्रभयोरपि ॥ १२ ॥
31.12 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णु (wrong syllable)