कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

डकारादिः

॥ अथ डकारादिः ॥

अथ डः शङ्करे शून्येशङ्खध्वनौ ध्वनौ शठे ।भयङ्करे भये चासेडश्चन्द्रे चन्द्रमण्डले ॥ १ ॥
29.1 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्व (wrong syllable)
डश्चञ्चलस्त्रियां हास्येनार्यामिक्षुरसे क्षये ।डस्त्राण-त्रासयोर्वामेविषये च जये जडे ॥ २ ॥
29.2 · p. 164
अनुष्टुप्
पक्ष-पान्थ-पिशाचेषुजाप-काल-दृढेषु डः ।रागे भगन्दरे डः स्याच्-शिश्ने भयङ्करध्वनौ ॥ ३ ॥
29.3 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
गिरीशे गायने रौद्र-रसे डोऽतिशयेऽधरे ।आक्षेपे दक्षिणे केलौगायके सङ्गरे च डः ॥ ४ ॥
29.4 · p. 164
अनुष्टुप्
डः सार्थ-सारव-ज्ञाप्य-वेगित-वाडवाग्निषु ।डः स्याद्दुर्गपथे बन्दि-वृन्द आन्दोलने तथा ॥ ५ ॥
29.5 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
डो ध्याने चामरे वृक्षेतोमरे दारके भवेत् ।डः स्यान्नन्द्यां क्षमायां चडं पन्थे स्यान्नपुंसकः ॥ ६ ॥
29.6 · p. 164
अनुष्टुप्
डं स्याड्डमरुके नेत्रेवृथोदिते च डामरे ।पयसि क्षुद्रजन्तौ डंदुर्गे दुर्गपथे वधे ॥ ७ ॥
29.7 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
डा जिह्वा-पृथिवी-लक्ष्मी-भारती-चण्डिकास्वपि ।डाकिन्यां कुण्डलिन्यां डासरमा-भूतभाषयोः ॥ ८ ॥
29.8 · p. 164
अनुष्टुप्
डा वृथावाचि शिक्षायांडा व्रीडा-ढक्कयोस्तथा ।डिर्गौर्यां डी करे मुस्ता-पत्रे डीर्व्योमगामिनि ॥ ९ ॥
29.9 · p. 164
अनुष्टुप्
कालक्षेपे च दण्डे डी-र्डीर्धात्री-शिवयोरपि ।डुरुत्पाते जरत्कायेदाने भ्रान्ते वृथाकुले ॥ १० ॥
29.10 · p. 164
अनुष्टुप्
व्रणे चन्द्रे समाख्यातोडुर्बाल-बलहीनयोः ।डुः फेने विद्भिराख्यातो-ऽ-ल्परोदने समीरितः ॥ ११ ॥
29.11 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
डूर्हिंसा-व्यर्थवाचालेसर्पे शाप-मयूरयोः ।डेर्धर्मे डैर्बलीवर्देडैरकर्णे समाहृतः ॥ १२ ॥
29.12 · p. 164
अनुष्टुप्
डोकारोऽथान्त्यजे पापि-पुरुषे पुरुषाधमे ।डौरथ स्याद्वधे चापिनिन्दायां परिकीर्तितः ॥ १३ ॥
29.13 · p. 164
अनुष्टुप्
डौः संप्रोक्तः करे जारेधेनौ शब्दानुशासने ।ड्यो दाडिमतरावुक्तःकरे, ड्यं जाड्य उच्यते ॥ १४ ॥
29.14 · p. 164
अनुष्टुप्
ड्या लक्ष्मी-नर्मदा-गङ्गा-सूक्तो ड्रो दक्ष-दण्डयोः ।दूरगे डमरौ ड्रश्चड्रं पुष्पे नर्मदाजले ॥ १५ ॥
29.15 · p. 164
अनुष्टुप्
ड्रं मद्ये मधुरे ख्यातोड्रं कमले सुरोदके ।ड्रा टिट्ट्यां मत्स्यगन्धायांमहोदर्यामुदीरितः ॥ १६ ॥
29.16 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
ड्रा भवेज्झषपत्न्यां, ड्वोभरद्वाजसुते तथा ।ड्वं स्यान्महोदरे, ड्वा तुदाढायां विद्भिरीरितः ॥ १७ ॥
29.17 · p. 165
अनुष्टुप्