कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

ङकारादिः

॥ अथ ङकारादिः ॥

ङोऽथ सिद्धौ जने प्राणेसौदामिन्यां भयङ्करे ।ङः सर्पे पूजके शून्य-शब्दज्ञ-परिपन्थिषु ॥ १ ॥
21.1 · p. 156
अनुष्टुप्
अश्वे ङो दानवाञ्छाया-माधौ काक्षा-ऽनुबन्धयोः ।ङो द्विजे भैरवे चौरेनिन्दायां निनदे नदे ॥ २ ॥
21.2 · p. 156
अनुष्टुप्
ङो विषयस्पृहायां स्याद्विषये व्यसने तथा ।अवसायिनि ङः प्रोक्तो-ऽथ ङं ब्रह्म-वितानयोः ॥ ३ ॥
21.3 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
सुख-विष-पयःसु स्याद्घृते जलेऽञ्जने च ङम् ।ङा पृथिव्यां च लक्ष्म्यां स्याद्ङिर्बीभत्सौ नृगे तथा ॥ ४ ॥
21.4 · p. 156
अनुष्टुप्metre not read in every line
ङिः सूक्ष्मे ङीर्भवेद्राज्ञिङीः कृकलासपे भवेद् ।ङुः सूकरे समाख्यातोङूर्व्याघ्रे संप्रकीर्तितः ॥ ५ ॥
21.5 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
ङेर्बुधैरुच्यते सूतेतथा ङैश्च परासरे ।ङोकारश्चाथ सिंहे, ङौःसूर्य-चन्द्रा-ऽरुणा-ऽग्निषु ॥ ६ ॥
21.6 · p. 157
अनुष्टुप्
ङ्रोऽशरणे नरेऽशूरेङ्रं हानौ रोदने गृहे ।ङ्रं नाशायां प्रभायां चङ्रा मारिणौ समाहृतः ॥ ७ ॥
21.7 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 रि (wrong syllable)