All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
रकारादिः
॥ अथ रकारादिः ॥
अथ र ईश्वरे रामेरजसि रय-रूपयोः ।रुधिरे रुचिरे रङ्केरो रोचिष्मति रक्षणे ॥ १ ॥
43.1 · p. 181
अनुष्टुप्metre not read in every line
रः शरे शङ्करे शब्देशबे सूर्य-समुद्रयोः ।शये स्मये क्षये रः स्याद्व्यये भये नये-न्द्रिये ॥ २ ॥
43.2 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
रश्छेदे वेदने वज्रेवीरे तीव्रे ह्यरौ गुरौ ।कामा-ऽऽराधन-मेघे रोयुद्धे चरे नरे धने ॥ ३ ॥
43.3 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
रः पिण्डे पवने पृथ्व्यांप्रेम-पाका-ऽग्नि-दातृषु ।र इच्छायामृतौ तीक्ष्णेधनरोधे च धातरि ॥ ४ ॥
43.4 · p. 182
अनुष्टुप्
रस्त्यागे विरसे स्त्यानेकामानले विधौ श्रवे ।रं रङ्गे रोदने रत्नेराध्ये रुधिर-रन्ध्रयोः ॥ ५ ॥
43.5 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
रं भय-चक्र-वेगेषुरं स्याद्ध्याने धने मुखे ।आकाशे कर्कटे कुक्षौरं स्यादण्डे दृढे द्युतौ ॥ ६ ॥
43.6 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
जले च मूर्धनि स्याद्रंशब्दे सुज्ञैः समीरितः ।रा समृद्धौ सुवर्णे स्याद्बाला-शाला-सुखे मुखे ॥ ७ ॥
43.7 · p. 182
अनुष्टुप्
रा राज्ये रुधिरे रामेरमणी-रमणे तथा ।रा राढायां रमायां चरागे राज्ञि धने गतौ ॥ ८ ॥
43.8 · p. 182
अनुष्टुप्
क्रोधे क्रूरे तथाऽऽकाश-शीर्षा-ऽऽशंसासु रा बले ।रा पूर्णे विक्रमे दानेरभसे साध्वसे तथा ॥ ९ ॥
43.9 · p. 182
अनुष्टुप्
घान्तो राक् त्रिः समर्थे स्याज्-जान्तो राट् च पुमान्नृपे ।रिः स्वसृ-स्रव-कर्पूर-गति-गिरि-शिव-क्षये ॥ १० ॥
43.10 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)
री गतौ श्रवणे नार्यांमेरुपरिभ्रमे भ्रमे ।रीरग्नि-कामि-पृथ्वीषुहरिण्यां श्रोतरि भ्रमे ॥ ११ ॥
43.11 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
रुः शम्भु-शब्दयोर्युद्धेकान्तौ जाले मृगे-च्छयोः ।रसने रक्षणे प्रोक्तोरुर्भाग-भय-भानुषु ॥ १२ ॥
43.12 · p. 182
अनुष्टुप्
विच्छेदे वम्रिके रुः स्यात्कामिन्यां रुश्च रु क्षितौ ।रुक् स्यात् स्त्री चान्त इच्छायांतेजः-किरण-कान्तिषु ॥ १३ ॥
43.13 · p. 182
अनुष्टुप्
शारिकाखगवाण्यां रुक्स्याज्ज्वाला-प्रभयोस्तथा ।रुग्जान्तः स्त्री व्यथा-कुष्ठ--मेषीषु भङ्ग-रोगयोः ॥ १४ ॥
43.14 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
जान्तस्त्री रुग्व्यथादे, रुद्दान्तः स्त्री व्याधि-रोदने ।रुट् षान्तः स्त्री भवेत् क्रोधेरूः स्वर्ण-कामरूपिणोः ॥ १५ ॥
43.15 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
प्रजापतौ च रूः प्रोक्तोरेश्च खेदे तथोदितः ।रे स्यादनादरे हूतौनीचसम्बोधनेऽव्ययम् ॥ १६ ॥
43.16 · p. 182
अनुष्टुप्
रैकार आश्रये प्रोक्तःसुवर्णे वर्ण-कृष्णयोः ।मेघे जले ध्वनौ लक्ष्म्यांरैकारः श्रवणे धने ॥ १७ ॥
43.17 · p. 182
अनुष्टुप्
अव्ययो रै च संबुद्धौदाने ह्यनादरे मतः ।रोकारः प्रोच्यते रोषेरौर्भव-स्वर्गयोरपि ॥ १८ ॥
43.18 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्य (wrong syllable)