कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

एकारादिः

॥ अथ एकारादिः ॥

एरथात्मनि विष्णौ स्याद्रजन्यां व्योम्नि राजनि ।एरसुरे शरे सूर्येस्यान्नीर-नीरधारयोः ॥ १ ॥
11.1 · p. 147
अनुष्टुप्metre not read in every line
एर्धातरि कुमारे स्यात्पर्वते गोचरे हरे ।वासरस्य मुखे ज्ञेयएरहिते च मारुते ॥ २ ॥
11.2 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable)
एश्चण्ड्यामुद्धते शक्तौवाराह्यां मणिकुट्टिमे ।एरेकादशसङ्ख्यायांकृतार्थ-कामरूपयोः ॥ ३ ॥
11.3 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
एस्तेजसि भगे ख्यातःशेषे पशौ तथोच्यते ।एश्च हर्म्योदरेऽरातौज्ञातीये समुदाहृतः ॥ ४ ॥
11.4 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
त्रिकोणके च झण्टीशएर्विद्भिः परिकीर्त्यते ।अव्ययमे स्मृतौ काम-सम्बोधना-ऽनुकम्पयोः ॥ ५ ॥
11.5 · p. 147
अनुष्टुप्metre not read in every line
ए स्यात् सम्बोधने हूता-वसूयायां तथाऽव्ययम् ।एड्भवेत् स्त्री षकारान्तोगताविच्छावपि स्मृतः ॥ ६ ॥
11.6 · p. 147
अनुष्टुप्