कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

दकारादिः

॥ अथ दकारादिः ॥

दोऽथ दातरि दाने स्याद्देवे दोहन-दीनयोः ।दयायां दन्दशूके दोदीप्ति-दमनयोरपि ॥ १ ॥
34.1 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प्ति (wrong syllable)
पालके दानशौण्डे दःपूजने बोध-बन्धने ।दो बीज-बाल-वालेषुदो विदोषे वधे भये ॥ २ ॥
34.2 · p. 169
अनुष्टुप्
चालने चीवरे दोऽभ्रेवैराग्ये च त्रिलोचने ।दः क्षीण-सत्य-सिंहेषुशुद्धौ प्राणे ह्यसौ वरे ॥ ३ ॥
34.3 · p. 169
अनुष्टुप्
छेदे सम्बोधने शैलेभावे भवे तु दो भवेत् ।दः कुबेरे कलत्रे स्यान्-निर्भत्सने बलोदिते ॥ ४ ॥
34.4 · p. 169
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable); pāda 4, syllable 3 त्स (wrong syllable)
दः स्यात् प्रथमसंयोगेदस्त्रिलिङ्गः शुचौ चले ।दो मूढ-मूल-मूकेषुगृहीते द्रावकेऽपि च ॥ ५ ॥
34.5 · p. 169
अनुष्टुप्
दं दाने छेदने प्रोक्तःपाने स्यादवलोकने ।शरण-कर्म-पुत्रेषुदं वैराग्य-कलत्रयोः ॥ ६ ॥
34.6 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
दं भव्येऽकिल्बिषे न्यूनेदातरि समुदाहृतः ।दत् पुंलिङ्गो भवेद्दन्तेदं कलत्रेऽव्ययो मतः ॥ ७ ॥
34.7 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
दा दान-दातृ-दात्रीषुदम्पती-दिवि दन्तिनि ।गङ्गायामुपदायां दानार्यां कालकृते कुले ॥ ८ ॥
34.8 · p. 169
अनुष्टुप्
पृथ्वी-क्षान्ति-शुभासु स्याच्-छेदे बन्धे च दा स्मृतः ।नैवेद्ये शोधने दा स्या-दुपतापे च रक्षणे ॥ ९ ॥
34.9 · p. 169
अनुष्टुप्
दा तु सम्बोधने प्रोक्तस्-तथा दीनेऽवबोधने ।वैराग्ये दा विजानीयाद्दिर्दातरि क्षये तथा ॥ १० ॥
34.10 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
द्यौः स्वर्गा-ऽऽकाशयोरुक्तोदिने दिनकरेऽपि च ।दिक् स्त्रीलिङ्गो दिशायां हिशान्तोऽपाठि विपश्चिता ॥ ११ ॥
34.11 · p. 169
अनुष्टुप्
दी देवतर्पणे चाथदीः सुधास्वामिनि स्मृतः ।दुः स्याद्विखण्डने चाथदुस्तरे दुः करेऽवरे ॥ १२ ॥
34.12 · p. 169
अनुष्टुप्
दुर्दरिद्रिण्यरण्ये स्याद्रान्तो दूर्द्वार उच्यते ।दुरव्ययो रकारान्तःकृशे कृच्छ्रार्थ-दुःखयोः ॥ १३ ॥
34.13 · p. 169
अनुष्टुप्
निषेध-कष्ट-निन्दासुदुष्टे-षदर्थयोश्च दुः ।दुस्सान्तो ह्यव्ययो दोषेदुःखभावन-कोपयोः ॥ १४ ॥
34.14 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
दूर्दुःखिनि तथा दुष्टेदूः शुद्धि-परितापयोः ।अव्ययं दृन् हि हिंसायांदृढे, दृक् स्त्री तथा दिने ॥ १५ ॥
34.15 · p. 170
अनुष्टुप्
नयन-ज्ञानयोर्बुद्धौशान्तः स्याद्दर्शने च दृक् ।ज्ञातरि दृक् त्रिलिङ्गः स्याद्वीक्षका-ऽध्यक्षयोस्तथा ॥ १६ ॥
34.16 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
देः क्रीडायां तथा पत्न्यांक्रीडके देरपि श्रुतः ।दैर्मत्स्ये संभवेद्देव-कन्यायां वामनर्षभे ॥ १७ ॥
34.17 · p. 170
अनुष्टुप्
दोकारश्चरणे हस्तेशिश्ने विद्भिः समुच्यते ।दोः सकारान्तको बाहौतथा च दीर्घदेशके ॥ १८ ॥
34.18 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
दौर्भवेदात्मजे प्राणेदेवलोके समर्थितः ।द्यः समुद्रे, तथा द्यं तुक्लीबो निन्द्ये सुखे चिरे ॥ १९ ॥
34.19 · p. 170
अनुष्टुप्
द्यं त्यागे खण्डने शत्रौद्य पादपूरणेऽव्ययः ।हिंसायां प्रातिलोम्ये द्यद्या दयायां निगद्यते ॥ २० ॥
34.20 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
द्युर्वह्नावह्नि च व्योम्निद्युश्च देवालये मतः ।अव्ययो द्युः च दुर्देशेतथैव प्रश्नवाचके ॥ २१ ॥
34.21 · p. 170
अनुष्टुप्
द्युत् किरणे पुमान् प्रोक्तोद्योतमाने त्रिलिङ्गकः ।द्योकारः स्त्री बुधैरुक्तःस्वर्गे नभसि बन्धने ॥ २२ ॥
34.22 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
द्योकारः पूरणे प्रोक्तोद्यौः स्वर्गे समुदाहृतः ।द्रोऽथ रमापतावुक्तोभयकृद्-रतिदेवयोः ॥ २३ ॥
34.23 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
द्रोणे द्रोणसुते राज्ञिद्रः काक-काकतुल्ययोः ।द्रो नरे भरते प्रोक्तोद्रं गुरौ गमने भये ॥ २४ ॥
34.24 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
श्रयणे क्षोदने क्षुद्रेद्रं देवकुक्कुरीमुखे ।सुखदे सुतटे द्रं स्याद्द्रं सामस्मरणे तथा ॥ २५ ॥
34.25 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
स्त्रीलिङ्गो द्रा भवेत् क्षुद्रा-द्रोणमूर्ति-दरीष्वथ ।द्रा तु दुरात्मजायां स्याद्देवशुन्यां तथा भवेत् ॥ २६ ॥
34.26 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 दु (wrong syllable)
द्रागव्ययं झटित्यर्थेद्रुर्गतौ स्त्री तरौ पुमान् ।द्रुः कामरूपिणि स्वर्णेद्रूः स्वर्ण-कामरूपिणोः ॥ २७ ॥
34.27 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
द्वः पुंलिङ्गो भवेद्दावेद्वं क्लीबो दूर-युद्धयोः ।द्वं वरदे तथा द्वा स्त्रीगङ्गायां नगरे मतः ॥ २८ ॥
34.28 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
रान्तो द्वार्देवपूजाया-मुपाये द्वार-शोभयोः ।रमायां द्वार्भवेच्छक्तौसुख-वरेण्ययोरपि ॥ २९ ॥
34.29 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
द्विड्द्वेष्टरि रिपौ षान्तोद्विर्द्विवारेऽव्ययस्तथा ।द्वेट् षान्तो द्वेष्टरि क्लीबोद्वै वितर्केऽव्ययो भवेत् ॥ ३० ॥
34.30 · p. 171
अनुष्टुप्