कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

धकारादिः

॥ अथ धकारादिः ॥

अथ धो धर्म-धात्रोः स्याद्धार्मिके धनदे धने ।ध्वनौ धन्वन्तरे धीरेधो धातौ ध्यान-धान्ययोः ॥ १ ॥
35.1 · p. 171
अनुष्टुप्
धावति धैवते यक्षेध इन्द्रे चन्द्र-चित्रयोः ।धो विष्णु-वध-वादेषुमान-मीनेशयोर्मनौ ॥ २ ॥
35.2 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
शिलीन्ध्रेऽग्नो भृते भीतेधः प्रीतौ पितृ-पावने ।धो राज्ञि बन्धने बालेघटे गुह्य-कलत्रयोः ॥ ३ ॥
35.3 · p. 171
अनुष्टुप्
सामर्थ्य-दातृ-दानेषुध आश्लेषा-ऽऽश्ववारयोः ।धो ह्यवधायके प्रोक्तोधन्वन्तरि-विशेषयोः ॥ ४ ॥
35.4 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
इभकुम्भे तथा देश-भेदे धो गिरिजात्मजे ।धं धने धनदे धान्येध्यान-धूनन-धारणे ॥ ५ ॥
35.5 · p. 171
अनुष्टुप्
धं धीरे सधने दानेबन्धने बुध-बोधयोः ।पारुष्य-खड्गयोर्धं स्यात्सामर्थ्ये करणे गृहे ॥ ६ ॥
35.6 · p. 171
अनुष्टुप्
धं समुद्रे सुखे षण्ढेवञ्चन-वृक्णयोः श्रुतः ।धा धनदे धने धान्येधारके धातरि ध्वनौ ॥ ७ ॥
35.7 · p. 171
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
ध्याने धन्वन्तरौ धर्म-रति-बुद्धि-घटेषु धा ।गोर्यां लक्ष्म्यां पृथिव्यां धामर्कटा-ऽघिकयोरपि ॥ ८ ॥
35.8 · p. 171
अनुष्टुप्
धाः स्याद्बृहस्पतौ चाथधिः स्याद्बुद्धौ सुधाम्बुधौ ।धिः समग्रे बुधैः ख्यातोधर्मे लोहे मणो च धिः ॥ ९ ॥
35.9 · p. 171
अनुष्टुप्
अव्ययो धिक् च निन्दायांनिर्भर्त्सने समीरितः ।धीषुधावौषधौ बुद्धौपुत्र्यां युद्धे बुधे गतौ ॥ १० ॥
35.10 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्त्स (wrong syllable)
धीर्बुद्धाविषुधौ ज्ञानेमनसि कर्मणि स्मृतः ।धीश्च वृकेऽसुरे ख्यातोज्ञानभेदेऽपि गद्यते ॥ ११ ॥
35.11 · p. 171
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable); pāda 3, syllable 3 वृ (wrong syllable)
धुरतिधृष्टके धूतेचिन्तायां तनु-भावयोः ।धुर्धूर्ते कम्पने चाथरान्तो धूर्भय-भारयोः ॥ १२ ॥
35.12 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
धूर्धूम-धूप-धूतेषुधूर्धन-धौत-धूलिषु ।धूर्धराकम्पने कम्पेयानमुखे युगा-ऽग्रयोः ॥ १३ ॥
35.13 · p. 171
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 मु (wrong syllable)
धूः शङ्करजटायां चहेरम्बे हिंसके तथा ।धूश्चिन्तायां च पीडायांवेतने ह्यङ्ग-विश्वयोः ॥ १४ ॥
35.14 · p. 172
अनुष्टुप्
धूः स्याद्विकृतगीतौ चा-ऽङ्गुलौ सुज्ञैः समीरितः ।ऊदन्तो धूः करे भारेधूनने धुरि वै मतौ ॥ १५ ॥
35.15 · p. 172
अनुष्टुप्
धूरतिधृष्टके धूपेधृकारः स्वामिनि स्मृतः ।धेर्वृषभेऽथ धैः पृथ्व्यांध्याने धेनौ च रावणे ॥ १६ ॥
35.16 · p. 172
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable); pāda 3, syllable 3 ष (wrong syllable)
धोकारो वृषणे प्रोक्तस्-तथोक्तः सूर्य-पापिनोः ।धौश्च धर्मे पृथिव्यां स्याद्गिरायां लोह-भारयोः ॥ १७ ॥
35.17 · p. 172
अनुष्टुप्
ध्नो धनि-बुध्न-सर्पेषुध्नं वने साधने धने ।ध्ना धन्यायां च सालायांमातुल्यां ध्यो गताक्षिके ॥ १८ ॥
35.18 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
क्लीबो ध्यं तु भवेदान्ध्येध्या शुद्धा-ऽन्धा-क्षुधास्वपि ।ध्रो भ्रातृवल्लभे भूध्रेधृष्टद्युम्ने वृकोदरे ॥ १९ ॥
35.19 · p. 172
अनुष्टुप्
ध्रो गरुत्मद्-गदापाणि-साक्षि-मड्गल-धारके ।ध्रं धारायां धरस्थानेधरण-ध्रुव-कूबरे ॥ २० ॥
35.20 · p. 172
अनुष्टुप्
ध्रा खगायां पृथिव्यां स्या-दम्भोगा-सरितोरपि ।पथिगायां तथा ध्रा स्यात्कुलगायामपि स्मृतः ॥ २१ ॥
35.21 · p. 172
अनुष्टुप्
ध्वो धवेऽग्नौ वधे मार्गेक्लीबो ध्वं ध्वस्त-धूनने ।ध्वं धन्ये ध्वा धरा-धारा-वधूत्तमासु गद्यते ॥ २२ ॥
35.22 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)