कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

लकारादिः

॥ अथ लकारादिः ॥

अथ लो लक्ष्मणे लूनेलवणे लवने तथा ।लो लम्पटा-ऽऽलया-ऽऽश्लेष-प्रलये चलनेऽनिले ॥ १ ॥
44.1 · p. 183
अनुष्टुप्
ल इन्द्र-चन्द्रयोः पृथ्व्या-माह्लादनेऽमृते मृते ।लः स्यान्मन्दगतौ मांसेमधुमत्ते च साधने ॥ २ ॥
44.2 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
लो दीप्ति-दान-दीनेषुदिशायां व्याज-वाद्ययोः ।लो भय आशये चौरेक्रिया-नास्तिक-शङ्करे ॥ ३ ॥
44.3 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
पक्षिणि वृक्षशाखायांखण्डने केशवे च लः ।लमाकाशे सुखे रक्षो-वचन-विष-नामसु ॥ ४ ॥
44.4 · p. 183
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable); pāda 4, syllable 2 च (wrong syllable)
आश्लेषे लोपना-ऽपूर्ण-लवण-लक्षणेषु लम् ।लं दाना-ऽऽदानयोः श्रोत्रेमन्त्रभेदेऽपि संस्मृतः ॥ ५ ॥
44.5 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
ला लक्ष्मी-लाभ-लोभेषुलीला-ललनयोर्लये ।ला लूनि-दीप्त्यु-पालम्भआश्लेषा-ऽऽदानयोस्तृणे ॥ ६ ॥
44.6 · p. 183
अनुष्टुप्
विलासे-न्द्रा-ऽदने स्याल्लादाने लाश्च दशा-ऽमृते ।लिर्लाव-सर्प-शब्देषुक्षये साम्ये च कङ्कणे ॥ ७ ॥
44.7 · p. 183
अनुष्टुप्
लिरन्त-क्लमयोः ख्यातोली चपले च साधने ।ली श्लेषे वलये, लीः स्याच्-श्लेष-विश्लेषयोर्द्रवे ॥ ८ ॥
44.8 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
लीर्भये वलये पृथ्व्यांलवने दृढबन्धने ।लुः पृथ्व्यां लूः पृथिव्यां स्याल्-लवने लवणेऽरुणे ॥ ९ ॥
44.9 · p. 183
अनुष्टुप्
लूरिन्द्रे छेदके रुद्रेगरुडे लूश्च लेर्लवे ।लेः श्लेषणेऽथ लै रामेदयायामादरे कुशे ॥ १० ॥
44.10 · p. 183
अनुष्टुप्
लोकारः श्लेषणे मत्स्येलौः सुख-दृश्ययोरपि ।लौः स्यात् प्रजापताविन्द्रेछेदन-वादयोश्र लौः ॥ ११ ॥
44.11 · p. 183
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
ल्यः पुमानुद्धते चैवा-ऽयसि, ल्यं निलये तथा ।ल्या नलिन्यामहिल्यायांल्रः स्याल्लालित-लण्डयोः ॥ १२ ॥
44.12 · p. 183
अनुष्टुप्
ल्रः स्यादङ्के तथैवाल्केल्रं क्लीबो नभसि स्मृतः ।ललनावदने ल्रं स्याल्-लालितेऽपि नपुंसकः ॥ १३ ॥
44.13 · p. 183
अनुष्टुप्
ल्रा प्लाविता-ऽम्बुला-लाजा-ललिता-लालितास्वथ ।ल्लो लोक-तर्कयोश्च, ल्लंक्लीबो लक्ष्म-सनातने ॥ १४ ॥
44.14 · p. 183
अनुष्टुप्
ल्लं परंब्रह्मणि प्रोक्तोल्ला पार्वत्यामपीरितः ।ल्ल्या स्त्री सुरेश्वरी-सर्व-जगन्मात्रोः समुच्यते ॥ १५ ॥
44.15 · p. 183
अनुष्टुप्
सर्वेशान्यां तथा ल्ल्या स्याल्-ल्वो लवस्तु पुमान् मतः ।ल्वं क्लीबः सूदनेऽथ, ल्वालव्यायां स्त्री समाहृतः ॥ १६ ॥
44.16 · p. 184
अनुष्टुप्