कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

शकारादिः

॥ अथ शकारादिः ॥

अथ श ईश्वरे शिष्येशङ्करे शस्त्र-शास्त्रयोः ।शोभा-शूद्र-शशाङ्केषुशः शान्तौ शीत-शस्तयोः ॥ १ ॥
46.1 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
शतायुः-शयन-स्वच्छ-सूर्ये शः स्वामि-सीमनि ।शो राज-रश्मि-हिंसासुजले मृत्यौ महार्णवे ॥ २ ॥
46.2 · p. 185
अनुष्टुप्
गिरीशे कच्छपे लक्ष्मी-वल्मीका-ऽश्वेषु शो बके ।शः स्याद्दग्धा-ऽऽशिषोरस्थ्निशः शोभन-परोक्षयोः ॥ ३ ॥
46.3 · p. 185
अनुष्टुप्
स्वच्छवारिणि शः ख्यातोभूते वज्रे भवेदसौ ।श उदात्ते विपक्षे चशङ्कुकर्णे निगद्यते ॥ ४ ॥
46.4 · p. 185
अनुष्टुप्
शं शस्त्रे शरणे शक्तौशोभायां शेष-शङ्करे ।श्रेयसि प्रेयसि स्वर्गेसुखे सत्ये शमायुधे ॥ ५ ॥
46.5 · p. 185
अनुष्टुप्
शं शरीरे धने धर्मेपत्नीवदनदर्शने ।कीर्तौ तूष्णींगते शं स्याच्-शयने च शरासने ॥ ६ ॥
46.6 · p. 185
अनुष्टुप्
शान्ते नीतौ शमिन्द्रेऽज्ञेसंप्रोक्तः शब्दकोविदैः ।शमव्ययो मकारान्तःशास्त्र-कल्याणयोः सुखे ॥ ७ ॥
46.7 · p. 186
अनुष्टुप्
शा शोभायां च शाखायांशास्त्रेऽपि शात-शान्तयोः ।अम्बायां मरणे लक्ष्यांशा श्रेष्ठ-शक्ति-भक्तिषु ॥ ८ ॥
46.8 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 ष्ठ (wrong syllable)
शा गौर्यां देवपूजायांसास्नायां शान्ति-शाप्तयोः ।सकारान्तश्च शाः प्रोक्तःशास्तरि विबुधैर्वरैः ॥ ९ ॥
46.9 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्त (wrong syllable)
शिः शोभायां शिवे शक्तौश्रेष्ठेऽन्ते मोक्ष-पक्षिणोः ।हिंसायां देवपूजायांशिर्गौयां जीव-बाणयोः ॥ १० ॥
46.10 · p. 186
अनुष्टुप्
शिः शान्ति-भाग्ययोः स्वापेविवशे च तनौ कृतौ ।शिर्बाणौघे समाख्यातश्-चान्तस्तु शिक् च शिक्यके ॥ ११ ॥
46.11 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
शी शिशौ शयने शोकेशान्तौ लक्ष्म्यां बुधे क्षये ।आशीर्वादे च सौभाग्येशी स्वस्त्री-परयोषितोः ॥ १२ ॥
46.12 · p. 186
अनुष्टुप्
शीर्हिंसा-बाण-निन्दासुशयाने शयने गृहे ।शुः शूद्रे शार्करे शोकेस्तब्धे चन्द्रे स्वनेऽचले ॥ १३ ॥
46.13 · p. 186
अनुष्टुप्
शुर्वसुधारके ख्यातोहिंसायामपि सज्जने ।अव्ययः शु तथाऽऽश्चर्येपूजनेऽपि भवेदसौ ॥ १४ ॥
46.14 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सु (wrong syllable)
चकारान्तश्च शुक् शोकेस्रीलिङ्गः परिकीर्तितः ।शूः शूद्रे विततौ प्रोक्तोहिंसायामपि गद्यते ॥ १५ ॥
46.15 · p. 186
अनुष्टुप्
शेः स्यादगे शिरीषे चशैस्तथा धन्धुहा-नृपे ।शोकारश्च भवेद्दोषेशौः शङ्खे च शिशौ तथा ॥ १६ ॥
46.16 · p. 186
अनुष्टुप्
नान्तः श्म क्लीबलिङ्गश्चशव-शरीरयोर्मुखे ।श्य आश आशये नार्यांश्यं शाप-वश्ययोरपि ॥ १७ ॥
46.17 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable); pāda 4, syllable 3 प (wrong syllable)
श्या वेश्यायां कृषौ स्यात् स्त्रीश्रः पुमान् सारथौ शरे ।श्रः स्यादसारदेऽसारेश्रः शरण्ये शिवे तथा ॥ १८ ॥
46.18 · p. 186
अनुष्टुप्
श्रं तारुण्ये शरण्ये स्यात्सुनॄणे तादृशे शिवे ।अव्ययं श्रत् तु सत्ये स्याच्-श्रद्धायामपि कथ्यते ॥ १९ ॥
46.19 · p. 186
अनुष्टुप्
श्रा रमायां च रामायांपार्वत्यामपि कीर्त्यते ।श्रीर्वेषरचना- वृक्ष-वाणी-व्योम-विभूतिषु ॥ २० ॥
46.20 · p. 186
अनुष्टुप्
श्रीः सरलद्रु-संपत्ति-सरले सरलद्रवे ।श्रीः स्याल्लक्ष्म्यां लवङ्गे चप्रभा-प्रकारयोर्मतः ॥ २१ ॥
46.21 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
शोभायां च सरस्वत्यांश्रीः सिद्धि-बुद्धि-वृद्धिषु ।कमल-कीर्ति-कन्यासुश्रीर्जटा-बिल्ववृक्षयोः ॥ २२ ॥
46.22 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द्धि (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
श्रीः स्यात् त्रिवर्गसम्पत्तौमन्दगत्य-धिकारयोः ।श्रीरुपकरणे वेषो-पकरण- प्रशंसयोः ॥ २३ ॥
46.23 · p. 187
अनुष्टुप्metre not read in every line
श्रीः पूर्तौ चारुकामिन्यांश्रीर्विषो-पाधिभेदयोः ।श्रीः क्षुद्रायां, पुमान् रागेश्लः शुक्ले शलभे शिले ॥ २४ ॥
46.24 · p. 187
अनुष्टुप्
श्लं क्लीबः शङ्करे शीर्षेशुक्ल आधार इत्यपि ।श्लं व्योम-चूर्णयोरुक्तःश्ला स्री शिला-शलाकयोः ॥ २५ ॥
46.25 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
श्वः प्रातरशनेऽश्वेऽथश्वं क्लीबः शयने गते ।शल्य-शरण-याने श्वंगगन-यन्त्र-मैथुने ॥ २६ ॥
46.26 · p. 187
अनुष्टुप्metre not read in every line
नान्तः श्वा कुक्कुरे, सान्तःश्वस्त्वागामिदिनेऽव्ययः ।आकारान्तस्तथा स्त्री श्वात्वश्वा-चन्द्रकलत्रयोः ॥ २७ ॥
46.27 · p. 187
अनुष्टुप्