कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

प्रशस्तिः

॥ अथ प्रशस्तिः ॥

॥ शार्दूलविक्रीडितम्‌ ॥

गर्भेऽम्बोपरि, वासवोपरि जनौ,बाल्ये पिशाचोपरि,भ्रातुश्चोपरि यौवने,सुविरतौ गोशालकस्योपरि ।कैवल्ये बुधगौतमोपरि,तथा सिद्धौ निगोदोपरि,पूर्णं यच्चरितं महोपकृतिभिस्तंवीरनाथं स्तुमः ॥ १ ॥
50.1 · p. 192
शार्दूलविक्रीडितम्

॥ उपेन्द्रवज्रा ॥

अनन्तलब्धे ! गुरुगौतमैकांनम्रत्वलब्धिं प्रददातु मह्यम् ।सुधर्म-जम्बू-प्रभवादिमेशाःसदैव कुर्वन्तु कृपां गणीशाः ॥ २ ॥
50.2 · p. 193
उपजातिः

॥ इन्द्रवज्रा ॥

एतन्महर्षीशपरम्परायांरात्रीश-गोदुग्ध-हिमोज्ज्वलायाम् ।सूरेर्जगच्चन्द्रगुरोस्तपाऽऽख्यो-ऽभूत् स्वच्छगच्छोऽथ तथैव तत्र ॥ ३ ॥
50.3 · p. 193
इन्द्रवज्रा

॥ स्रगधरा ॥

कच्छाद्युद्धारकर्ता जितविजयमुनि-र्वर्यसारल्यमूतिस्-तत्पट्टेऽभूच्च हीरादिविजयमुनिपोध्यानमग्नो गणीशः ।तत्पट्टाकाशसूर्यो मुनिपदसहितोबुद्धिनामा सुबुद्धिःपन्न्यासस्तस्य पित्र्यस्तिलिकगणिवरोशास्त्रबोधे बुधोऽभूत् ॥ ४ ॥
50.4 · p. 193
स्रग्धरा

॥ मन्दाक्रान्ता ॥

श्रीमद्बुद्ध्यादिविजयशिशुःशान्तिचन्द्राख्यसूरि-र्गच्छाधीशः प्रशमजलघिःकर्मजालच्छिदेऽस्तु ।तच्छिष्योऽभूदनिशकरकृत्सर्वथा निष्कलङ्कोज्योतिर्ग्रन्थेऽतिनिपुणमतिःसोमचन्द्रश्च सूरिः ॥ ५ ॥
50.5 · p. 193
मन्दाक्रान्ता

॥ शिखरिणी ॥

तदीये पट्टेऽभूत्प्रवचन-सुलेखातिकुशलोनतेन्द्रो राजेन्द्रोगुरुरगुरुगन्धो विरतिदः ।डुवा-ढीमा-ऽणस्तु-प्रवरकलिकुण्ड-त्रिभुवना-ऽऽदितीर्थोद्धारेऽति-श्रममकुरुताऽहो ! मम गुरुः ॥ ६ ॥
50.6 · p. 193
शिखरिणी

॥ शालिनी ॥

शिष्यस्तस्य श्रेष्ठपुण्यप्रभावीपत्नी-पुत्रैर्दीक्षितः शिक्षितश्च ।जेताऽत्र स्तान्मे गुरुश्चापि तातःपूज्यो रम्यो राजपुण्यो मुनीन्द्रः ॥ ७ ॥
50.7 · p. 193
शालिनी

॥ शार्दूलविक्रीडितम्‌ ॥

नैकैकाक्षरकोषशीतलवरा-म्भोनिर्झराणां तथा-ऽनेकप्राज्ञसुशब्दकोषवरवा-र्नद्यूर्मिकानां चयात् ।निस्सीमः सुखवीचिपङ्क्तिपवनो-ऽगाधः स्वयंपावनोरत्नानां निकरो मधूदकवरोरत्नाकरो निर्मितः ॥ ८ ॥
50.8 · p. 193
शार्दूलविक्रीडितम्

॥ दृतविलम्बितम्‌ ॥

अमर-हेम-मनोहर-श्रीसुधा-क्षपण-राघव-माधव-सौभरीन् ।परम-विश्च-महेश्वर-मेदिनी-मथुर-यादव-केशव-भास्करान् ॥ ९ ॥
50.9 · p. 193
द्रुतविलम्बितम्metre not read in every linenearly द्रुतविलम्बितम्: pāda 1, syllable 9 र (wrong syllable)
पुरुष-श्रीधर- कालि-सुशाहरा-डमर-मङ्ख-महीप-हलायुधान् ।वर-धने-रुगपान् प्रमुखान् बुधान्समवलोक्य कृताऽक्षरमालिका ॥ १० ॥
50.10 · p. 194
द्रुतविलम्बितम्metre not read in every linenearly द्रुतविलम्बितम्: pāda 1, syllable 3 ष (wrong syllable)

॥ युग्मम्‌ ॥

॥ उपजातिः ॥

अनेकविद्वत्कृतकोषतोऽय-मेकाक्षराद्यो विहितः सुकोषः ।किमु प्रदीपान्तरतः प्रभूतोदीपोऽत्र लोके न भवेत् तमोघ्नः ? ॥ ११ ॥
50.11 · p. 194
उपजातिः

॥ शार्दूलविक्रीडितम्‌ ॥

श्रीराजेन्द्रगुरोः करे सुमनसापुष्पाञ्जलावर्पितःकोषोऽसौ बुधषट्पदालिरसना-ऽऽनन्दप्रदोऽस्तु द्रुतम् ।माता मे श्रमणी तु सौम्यवदनाश्रीराजपुण्यः पिताकाङ्क्षैकैव तयोर्मनो जननदोर्मे-ऽस्माच्श्रमात् प्रीयताम् ॥ १२ ॥
50.12 · p. 194
शार्दूलविक्रीडितम्

॥ वसन्ततिलका ॥

एषा कृतिः सुकृतिभिः कृतिभिः प्रकृत्यासंशोधिता मयि हृदः करुणां च कृत्वा ।मात्सर्यशून्यहृदयैः सदयैः क्षतिश्चेत्संप्रेक्ष्यते क्षतिखनेः स ममैव दोषः ॥ १३ ॥
50.13 · p. 194
वसन्ततिलका

॥ इन्द्रवज्रा ॥

दोषान् परित्यज्य विशुद्धबुद्ध्यागृह्णन्तु सुज्ञाः ! सुगुणं सदाऽस्य ।पुष्पस्य पांसून् परिहृत्य भृङ्गागृह्णन्ति पुष्पस्य रसं यथैव ॥ १४ ॥
50.14 · p. 194
इन्द्रवज्रा

॥ अनुष्टुप्‌ ॥

दीक्षाया नवमे वर्षेप्रारब्धे कैमुरे गिरौ ।माघश्यामलपञ्चम्या-मारब्धवान्, समाप्तवान् ॥ १५ ॥
50.15 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब्ध (wrong syllable)
चतुर्विंशस्य वर्षस्यसमाप्तौ जन्मनस्तथा ।श्रेष्ठे केसरियातीर्थेचैत्रीयपूर्णिमातिथौ ॥ १६ ॥
50.16 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)

॥ युग्मम्‌ ॥

राग-रस-नभो-नेत्र-मिते विक्रमवत्सरे ।सुन्दरैकाक्षरं कोषंकृतवान् राजसुन्दरः ॥ १७ ॥
50.17 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)

॥ स्रगधरा ॥

यावन्मेघः पृथिव्यै सुमधुरसलिलंरात्यसावन्तरीक्षाद्यावच्चन्द्रः पृथिव्या उपरि सुवहतिव्योममार्गे ग्रहौघम् ।यावत् सूर्यः पृथिव्यामपहरति तमस्-त्वम्बरे संस्थितोऽपितावत् कोषोऽतितोषोऽखिलभुवि जयतात्सुन्दरैकाक्षराऽऽख्यः ॥ १८ ॥
50.18 · p. 194
स्रग्धरा