कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

नकारादिः

॥ अथ नकारादिः ॥

अथ नः स्याज्जिने सूर्येस्वागते सुगते स्तुतौ ।नः स्थान-स्थिरयोर्ज्ञानेनो बन्ध-बन्धु-बुद्धिषु ॥ १ ॥
36.1 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
नो निषेधे नरे नाभौनिबन्ध-नेतृ-निश्चये ।अनुगतावनर्थे नःसनाथे सागरे तथा ॥ २ ॥
36.2 · p. 172
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable); pāda 3, syllable 3 ग (wrong syllable)
नो मेघे तरणौ रत्नेरक्षायां वृक्ष-वृन्दयोः ।नः पूज्ये प्रस्तुते छिन्नेनो हेरम्ब-द्विरण्डयोः ॥ ३ ॥
36.3 · p. 172
अनुष्टुप्
नः कवौ शुष्कवादे स्या-दभावे चर्विते तथा ।नोऽतिभिन्ने सुवर्णे, नो-ऽपरिक्लिष्टे त्रिलिड्गकः ॥ ४ ॥
36.4 · p. 172
अनुष्टुप्
नस्त्रिलिड्गो भवेद्वाद्येसूक्ष्मे शरीर-शून्ययोः ।अभिन्ने चैव भिन्ने स्यान्-नोऽभीष्टे वध्य-पद्ययोः ॥ ५ ॥
36.5 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
नं नेत्रे नन्दनेऽनन्तेनं सानन्दे सुखेऽपि च ।नं वाद्ये ब्रह्मणि श्रोत्रेज्ञाने करण-कारणे ॥ ६ ॥
36.6 · p. 172
अनुष्टुप्
नं बन्धावञ्जने प्राज्ञैःकथितः शब्दवेदिभिः ।अव्ययं स्यान्न चाभावेतथोपमा-निषेधयोः ॥ ७ ॥
36.7 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
नञ् निषेधे स्वरूपार्थेतदन्य-तद्विरुद्धयोः ।ईषदर्थे तथाऽभावेनञ् सादृश्येऽप्यतिक्रमे ॥ ८ ॥
36.8 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्य (wrong syllable)
नग्रात्रावव्ययं, शान्तोनट् स्त्री नाशे प्रकीर्त्यते ।शान्तस्त्रिलिड्गकः प्रोक्तोनड्नाशप्रतियोगिनि ॥ ९ ॥
36.9 · p. 173
अनुष्टुप्
नाः सान्तो नासिकायां स्त्रीह्याबन्तो ना च नेतरि ।ना नरे निःश्रुते नाभौगरिमा-ऽज्ञानयोस्तथा ॥ १० ॥
36.10 · p. 173
अनुष्टुप्
ज्ञान-बन्धनयोर्ना स्याद्ना स्यात् कल्याण-भूषयोः ।ना निषेधेऽव्ययः ख्यातोनिः श्रुते श्वसने चये ॥ ११ ॥
36.11 · p. 173
अनुष्टुप्
निर्नरे निर्णये नेतृ-व्यये राजनि दुर्गतौ ।अव्ययं नि निवेशे चा-ऽऽदेश-निषेध-निश्चये ॥ १२ ॥
36.12 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
नित्यार्थे कौशले क्षेपेनि बन्धन-भृशार्थयोः ।नि स्यात् संशय-सामीप्य-विन्यास-दान-राशिषु ॥ १३ ॥
36.13 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
उपरमा-ऽऽश्रये मोक्षेदर्शने संयमे च नि ।अन्तर्भावे ह्यधोभावेसंधाने नि समीरितः ॥ १४ ॥
36.14 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
रान्तोऽव्ययो निरादेशेनिषेधे निर्णयेऽत्यये ।निः क्रान्तादि-बहिर्भावा-ऽभावे भोग-वियोगयोः ॥ १५ ॥
36.15 · p. 173
अनुष्टुप्
निरथातिक्रमे, शान्तोनिट् स्त्री निशा-हरिद्रयोः ।निस्सान्तो निश्चयेऽतीते-ऽव्ययः सार्व्य-निषेधयोः ॥ १६ ॥
36.16 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
ङ्यन्तो नी नीर-नद्योः स्याल्-लक्ष्म्यां नी नीड-रागयोः ।अङ्यन्तो नीश्व नद्यां स्यान्-नेतरि विद्भिरुच्यते ॥ १७ ॥
36.17 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
नुः स्तोतरि स्तुतौ ख्यातोनुर्देहे वृद्धि-वृक्षयोः ।नुः स्याज्ज्ञाने नृपे चैवक्लीबो नु स्तोत्र-वारिणोः ॥ १८ ॥
36.18 · p. 173
अनुष्टुप्
अव्ययो नु वितर्के स्यात्प्रतिषेधेऽवधारणे ।विकल्प-निर्भर-प्रश्ना-ऽनुनया-ऽनुशयेषु नु ॥ १९ ॥
36.19 · p. 173
अनुष्टुप्
हेत्व-तीता-ऽपमानेषुह्यपदेशेऽपि नु स्मृतः ।नूः स्तुतौ स्त्री, पुमान्नूः स्यात्पत्यौ पवन-पापयोः ॥ २० ॥
36.20 · p. 173
अनुष्टुप्
नृकारः स्यान्नरे नाथेशङ्कर-हय-शङ्कुषु ।नृकारो नेतरि प्रोक्तस्-त्रिलिङ्गश्चाथ नेः समे ॥ २१ ॥
36.21 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्क (wrong syllable)
नेच्शङ्कायां विचारे स्यात्प्रतिषेधे समुच्चये ।नैवेत्यर्थे विकल्पे नेद्नैस्तरणि-मृगा-ऽग्निषु ॥ २२ ॥
36.22 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्त (wrong syllable)
अव्ययं नो निषेधे स्यान्-निःश्रुता-ऽभावयोस्तथा ।नोन्नैवेत्यर्थके प्रोक्तो-ऽव्ययो, नौः पुरुषेऽप्यथ ॥ २३ ॥
36.23 · p. 174
अनुष्टुप्
नौः स्यान्नेतरि वाण्यां चदेवे नौ; काल-शालयोः ।तरणो नौः प्रविख्यातोनौ निषेधेऽव्ययो मतः ॥ २४ ॥
36.24 · p. 174
अनुष्टुप्
न्यो नय उज्ज्वले सिन्धौन्यं न्याय्ये नयने वरे ।त्रिलिङ्गो न्यङ् भवेन्नीचेनिम्ने कार्त्स्न्ये निगद्यते ॥ २५ ॥
36.25 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
न्या स्त्रीलिङ्गो नतौ नीता-वुग्राण्यां विद्भिरीरितः ।न्रो नरके नरेऽङ्गारेनार्मदे नामदे ह्रदे ॥ २६ ॥
36.26 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
न्रं नरके गृहे क्लीबोगरुडाङ्गे गरोद्भवे ।न्रा नार्यां नर्मदायां स्यात्परेशान्यां समीरितः ॥ २७ ॥
36.27 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
परमानन्ददायिन्यांन्रा पृथा-पुष्टयोरपि ।न्रा नरकोद्भवा-दुष्ट-नरवाचासु कीर्तितः ॥ २८ ॥
36.28 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
न्वः पुंलिङ्गो नवे प्रोक्तःक्लीबो न्वं नव-वस्तुनोः ।न्वा नवायां च तन्व्यां स्त्रीन्वै वितर्केऽव्ययं भवेत् ॥ २९ ॥
36.29 · p. 174
अनुष्टुप्